________________
प्रशस्त्यादिसंग्रहः ।
[२६९ [4553] आदिः-कल्याणङ्कुरवारिदः शमसुधावा: सुधादीधितिः
कारुण्याम्बुजतिग्मरोचिरखिलक्ष्मापीतकल्पद्रुमः । मोहध्वान्तततिप्रदीपकलिका संसारनिस्तारकृत्
__ भव्यानां शिवतातिरस्तु भगवान् वामासुतोऽयं जिनः ॥१॥ अन्तः---शाश्वतश्रीप्रभकर्मवृक्षपटलीनेमिप्रभप्रोल्लस
छान्तिश्रीललितप्रभोऽमलविभाप्रोद्भावदेवैर्नतः । श्रीसर्वज्ञसुपुण्यसागरपरिस्फूर्जद्यशचन्द्रमः -
सूरिप्रस्तुतवृद्धिसिद्धिसहित त्वं देहि मे मङ्गलम् ॥५॥११८॥ इति मन्त्राधिराजषट्कर्मद्रव्यसमुदयषट्कर्मयन्त्रोद्धारो नाम पञ्चमः पटलः । ग्रन्थाग्रम् १५५ ॥ सर्वग्रन्थश्लोकाः ५५९ शतानि पञ्चैकोनषष्टिश्लोकाधिकानि । पं०चरणसाधुगणिना लिखितः समग्रग्रन्थः स्वोपरोपकृत्यै ॥
[4572] अन्तः-इति श्रीमातृकाश्लोकमालायां भिन्नभिन्नपदार्थवर्णनो नाम द्वितीयः परिच्छेदः ।। प्रशस्तिः - श्रीमद् विक्रमनगरे प्रवरेन्द्रवाद्यसभ्यजनवृन्दैः ।
इषु-शर-घोडश( १६५५ )सङ्ख्ये वर्षे मासे च चैत्राख्ये ॥१॥ येषां प्रथते पृथ्यां कीर्तिः कर्पूरपूरसंकाशा । पाठकमुख्या नन्युर्ज्ञानविमलपाठकाधीशाः ॥२॥ शिष्येण निर्ममे येषां मातृकाश्लोकमालिका । वाचकश्रीवल्लभाहृनात्मीयज्ञानस्य वृद्धये ॥३॥ यं वर्ण यश्च बुध कथयत्यादौ विधाय तं विद्वान् । कुर्यात् सद्यः पद्यं तुर्पु पादेषु निश्शङ्कः ॥४॥ यस्यैषाऽऽयाति मुखे सुखेन लभतां ससत्वरं सभ्यः । विद्वज्जनेषु विद्वान् सौभाग्यौधं कवित्वं च ॥५॥ यस्मिन् काव्येऽस्ति यन्नाम व्यत्ययात् तस्य सत्वरम् ।
यथोक्तवर्ण्यस्य सद्व्याख्या तदा जायेत भो बुधाः ! ॥६॥ इति श्रीमातृकाश्लोकमालाप्रशस्तिः समाप्ता, तत्समाप्तौ समाप्ता चेय श्रीमातृकाश्लोकमाला । श्रीरस्तु, लिखितं त्रैलोक्यस्थान्ताद्देन ।
[4585] वृ० अन्तः-- इति श्रीलब्धिस्तवः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org