________________
२६८
मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्रहे
पठितं भणितं गुणितं जयविजय परमाभिवन्दनं परमम् । सर्वाधिव्याधिहरणं त्रिजगति पद्मावतीस्तोत्रम् ॥३१॥ आर्याच्छन्दः । आद्यं चोपद्रवं हन्ति द्वितीयं भूतनाशनम् । तृतीयं चमरीं हन्ति चतुर्थं रिपुनाशनम् ॥ ३२ ॥
पञ्चमं तु जनानां च वशीकरणमुत्तमम् । षष्ठं चोच्चाटनं हन्ति सप्तमं दुःखनाशनम् ||३३|| हन्त्युद्वेगं चाष्टमं च नवमं सर्वकार्यकृत् ।
इष्टा भवन्ति तेषां च त्रिकालं पठना[ ने] रताः ॥३४॥ इति श्रीपद्मावतीस्तोत्रं सम्पूर्णम् ॥
[ 4507] आदिः - ॐ श्रीचण्डिकायै नमः । ऐ नमः ।
Jain Education International
ऐन्दव्या कलयाऽवतंसितशिरो विस्तारिनादात्मकं
तद्रूपं जननि स्मरामि परमं चिन्मात्रमेकं तव । यत्रोदेति पराभिधा भगवती भासां हि तासां पदं
पश्यन्ती तनुमध्यमा विहरति स्वैरं च सा वैखरी ॥१॥
अन्तः कोऽप्यचिन्त्यप्रभावोऽस्य स्तोत्रस्य प्रत्ययावहः । श्रीशम्भु (भो) राज्ञया सर्वा सिद्धयोऽत्र प्रतिष्ठताः ॥४६॥ इति सरस्वतीमन्त्रगर्भितस्तोत्रं सम्पूर्णम् ॥
वा०
संवद्गगन-गुण-मुनीन्दुवर्षे ( १७३० ) तपसि मासे बहुलाष्टम्यां सोमवारे । कनककुमारगणीनां शिष्येण पण्डितकनकविलासेनालेखि स्तोत्रमिदम् । वाचनाचार्यवर्यधुर्य विज्ञजनसंस्मर्यभ्रातृ - श्री योधाजीवाचनाय शुभं भवतु । यादृशं चोपरितनं दृष्टं तादृशं लिखितं, लेखकस्य दोषो न देयः विज्ञैः शुद्धस्योपरि शोधनीयम् ॥
कान्तया कान्तसंयोगे किमकारि नवोढया ।
अत्रापि गदितं श्लोके यो जानाति स पण्डितः ॥ १ ॥
अत्र क्रिया गोपिताऽस्ति ।
रोचते या सपुन्यानां पापानां या न रोचते ।
गौराङ्गी वल्लभा पत्युः सा नारी मम कथ्यताम् ॥२॥
अत्र कर्त्ता गोपितोऽस्ति ।
For Private & Personal Use Only
www.jainelibrary.org