SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः। [२३७ श्रीश्रीमालकुले सुधांशुविमले योऽजायत प्रोज्ज्वले वर्षे सप्तमके विवेककलितः श्रीस्तम्भतीर्थे पुरे । आदाय व्रतमद्भुतैकधिषणो वर्षेऽजनि द्वादशे । व्याख्यां संघपुरश्चकार शर-भू(१५)वर्षे पदस्थोऽभवत् ।।४०॥ द्वाविंशेऽजनि वत्सरे रस-शराब्धीन्दु(१४५६)प्रमे वैक्रमे वर्षे सूरिवरो बभूव नगरे श्रीक्षेत्रसंज्ञे च यः । आसासंघपनन्दनेभ्यकरणश्राद्धेन क्लुप्तोत्सवः । पश्चात् तं सकुटुम्बमेव शशि-भू(११)वर्षे मुदाऽदीक्षयत् ॥४१॥ विद्वान् व्याकरणे बुधः परमते सिद्धान्ततत्त्वे सुधी-- श्छन्दो ऽलंकृति-काव्य-नाटक-कथा-तर्केषु बाढं दृढः । मेधावी गणितानुयोगविषये किं वा बहूक्तैरसौ सूरीन्द्रोऽत्र कलिन्दिकाकुलगृहं निर्द्वन्द्वमेव क्षितौ ॥४२॥ आलोक्य स्वगणं क्रियासु शिथिलं मग्नं प्रमादाम्बुधा वुद्दधे किल बोधसद्गुणयुजा चारित्रपोतेन यः । तत्पापश्रुतदुर्जनोपधिमुखं चोज्झाञ्चकार क्षणात् श्राद्धान् शुद्धनिधिं जिनागमविधिं चाबूबुधत् साधुधीः ॥४३॥ प्रवचनरथस्थितो यः श्रुतदिव्यास्त्रः सुशीलसन्नाहः । एकोऽपि कलिरिपुचमू जित्वाऽभूद् भुवनविख्यातः ॥४४॥ येषां पाणितलं सरोजविमलं सत्पुण्यगन्धाकुलं तेनात्तं किल गन्धचूर्णमभवन्माहात्म्यसौरभ्यभाक् । क्षिप्तं मण्डलिकेभ्यमौलिमभि यत्सम्यक्त्वसंघेशता-- प्रस्तावे किमु वर्धमत्र भुवनान्यद्यापि तद् वासयेत् ॥४५॥ चक्रे नवजीर्णचैत्यकृत्यं चित्कोशं बहुदानधर्मशालाः ।। मुनि-नग-मनु(१४७७)वत्सरे सुयात्रां व्यवहरमण्डलिकः स येषु भक्तः ॥४६॥ श्रीमान् मेलिगदेव इभ्यहरिराजश्चेति तद्वान्धवौ येषां वाक्यरसायनोर्जितगुणौ तद्बाहुदण्डाविव । जातौ तद्वदनेकपुण्यनिपुणावन्येऽपि सुश्रावकाः साभा-भीममुखाः सुकृत्यकरणैः संपन्नलक्ष्मीफलाः ॥४७॥ श्रीदेवरत्नसूरिप्रवरास्तत्स्थापिता गुरुगुणाद्याः । गुरुसेविनो जयन्ति प्रथितानेकोत्तरग्रन्थाः ॥४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy