SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ २३६] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे कर्णावत्यां भूपतिसाक्षिकमस्थापि येन शुद्धविधिः । श्रीगुणसेनगुरुपदे श्रीकीर्तिममुद्रसूरिरिह सोऽभूत् ॥२९॥ गीतिः । युग्मम् ॥ तत्पट्टाम्बुजतरणिर्दर्शितसुसरणिरने कभव्यानाम् । विद्योदधिः शमनिधिः श्रीहेमसमुद्रगुरुरासीत् ॥३०॥ श्रीहेमचन्द्रसूरिवीजापुरवा सिपेथडमहेभ्यः । यद्देशनाप्रबुद्धोऽकारयदुरुचैत्यसुचतुष्कम् ॥३१॥ सप्तसहजसुकृताप्त्यै साकं तैः सप्तविमलगिरियात्राः । स चकार च दुःसमये सत्रागारे घनान्नमदात् ॥३२॥ स्वसमयसकलश्रवणे वीराऽर्हद्-गौतमाऽभिधार्चातः। रैरूप्यटङ्ककैः स च चक्रे चित्कोशसुत्रितयम् ।।३३॥ सोऽर्बुदशैले गर्भालयं सबिम्बं व्यधापयच्चैत्ये । नेमेः सच्चित्तादननियमीत्यादि बहुसुकृतततिमकरोत् ॥३४॥ गीतिः ॥ अथ वृत्तानि-तदनु मनुशताब्दे ( १४०० ) सूरिरत्नं गणेऽभूत् । सुगुरुजयसमुद्रः सर्वसूत्रेष्वधीती। मुनिशत(७००)लिपिपाठावेकघने सृजंस्तत् समयकविनिबद् ग्रन्थशुद्धिं व्यधाद् यः ॥३५॥ वर्षे षट्-शशि-वेद-शीतगुमिते ( १४१६ ) देवालयैर्दीषुभिः (१०) सारङ्गाभिधसाधुसंघपतिना साई महर्द्विप्रथः । आसाको व्यवहृच्चकार महती यात्रां पदं हृदयी संसेवी चतुरस्तथैव चतुरः सूरीन् मुदाऽस्थापयत् ॥३६॥ रस-कर-मनुवर्षे(१४२६)लब्धपट्टोदयः श्रीकमलतिलकसूरिस्तत्पदेऽभून्महाश्रीः । तप उपशमरूपं ज्योतिराबिभ्रतोद्यत्तपनहिमरुची तौ निर्जितौ येन सद्यः ॥३७॥ यत्पादाम्बुजभक्तिभृद् भृगुपुरावासी विशुद्धिमान् प्राग्वाटो भटसिंहठक्कुर इति श्राद्धो जिनोक्तार्थवित् । कारुण्याम्बुनिधिः सुधासमगिरा भूमीभुजोऽरं जपन् देशेषु प्रवरेष्वमारिकरणावाटौघमासूत्रयत् ॥३८॥ ततोऽभवत् पुण्यदशाभिरामः श्रीमान् जयानन्दगुरुः सदाभः । दीपायितं येन बहुप्रमादतमोमये गच्छगृहाङ्गणेऽस्मिन् ॥३९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy