________________
२२८ ]
Jain Education International
मुनिराज श्री पुण्यविजयनां हस्तप्रतिसंग्रहे जातेषु जगतीशाय ततो भूरिषु सूरिषु । आनन्दविमलाह्वाना अभूवन् सूरयः क्रमात् ॥४॥ ये चक्रुः सत्क्रियोद्धारं सत्साधूनां सु[ खा] वहम् | तपागणतस्त्रातघनाघनसहोदराः || ५ || तत्पङ्के गुणगेहं निर्जितनिजरूप निर्जराधीशाः । भुविख्याता जाताः सूरिश्रीविजयदानाह्वाः || ६ | तत्पट्ट विष्णुपदयूषनिभो नितान्तं
पापान्धकारनिवहं [? च] निराचकार । यो म्लेच्छभूपतिमकब्बरनामधेयं
जन्तोः कृपापरमतिं कृतवांश्च हीर: ||७|| तत्पङ्के राजन्ते भट्टारक विजय सेनसूरीन्द्राः । साहिमदकब्बरपर्षदि ये लब्धजयवादाः ॥८॥ श्री विजयदेवसूरिप्रभृतित्रतिराजिराजिता नित्यम् । भविकजनानुसदृक्षा जीयासुर्जगति ते गुरवः ||९|| तच्छिष्यनाकिनाथाः कनकविजयको विदा बुधाधीशाः । स्वकवाचां सरसतया निर्जितवृन्दारकाहाया ( ? ) || १०॥ तत्पादपङ्केरुहो(ह)राजहंसो ज्ञेयो गुणादिर्विजयो गणिर्यः । श्रीवाचकोत्तंसविवि(वे)कहर्षप्रसादतो लब्धविशुद्धविद्यः ॥११॥ श्रीहेमचन्द्रगुरुणा रचितचारित्रानुसारतस्तेन ।
अतिसुगमं हितबुद्धचा विहितमिदं गद्यबन्धेन ॥ १२ ॥ युग्मम् | श्रीमत्सुराष्ट्रदेशे सुरपत्तननिकटवर्त्तिनि दङ्गे ।
वेलाकूले रब्धं तत्रैव कृतं [च] सम्पूर्णम् ॥१३॥ संवद् षोडश-रस-वसु(१६६८ ) वर्षेऽथाषाढमासि पञ्चम्याम् । कर्त्तुं मण्डितमेतत् पूर्णं चाभून्नभःषष्ठ्याम् ॥१४॥ न व्याकरणं वेद्मि प्रमाण - साहित्य - गणितशास्त्राणि । बालकचापल्यमिदं क्षन्तव्यं धीधनैर्विज्ञैः ॥ १५ ॥ यत् किञ्चिज्जानामि प्रकटमहं मूर्खकोटिकोटिरः । तन्माहात्मा (त्म्यं) सुगुरोरान्न पिकन्यायतो नूनम् ॥१७॥ यदसंमतमानीतं मोहान्मयकात्र कूटमथवा च । तत् संशोध्यं कृपया मात्सर्यमुक्तबुधैः (?) ॥१८॥
For Private & Personal Use Only
www.jainelibrary.org