SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [ २२९ गणिजीतविजयकानां प्रार्थनया विरचितं मया चरितम् । तैरेव लिखितमेतत् प्रथमादर्श( ) स्व(सु)कृताय ॥१९॥ किमिदं गद्यं विरचितमित्युक्त्वा केनचिच्च नो निन्द्यम् । येन स(स्व)ल्पमतीनामतिसुगमं दुर्गमं नेषत् ॥२०॥ श्लोकाः पञ्चसहस्राः शतद्वयी द्विप-बाणसंयुक्ताः (५२८५)। ग्रन्थाग्रं [ग]णयित्वा मयका प्रोक्तं यथाभूतम् ॥२१॥ यावन्मेरुगिरीन्द्रदिक च करिणो यावच्च सप्ताब्धयो ___ यावच्चन्द्र-रविग्रहाश्च सकला यावच्च सर्वसहा । यावद् धर्ममहानरेन्द्रनिचितं राज्यं च यावज्जगत् जीयात् तावदिदं मनोज्ञचरितं ज्ञैर्वाच्यमानं सदा ॥२२॥ इति प्रशस्तिसंयुक्तं श्रीनेमिनाथचरित्रं सम्पूर्णम् । ग्रन्थानम् ५२८५ संवत् १७६० वर्षे प्रथमश्रावणवदि३दिने भौमवासरे लिखितमिदम् । [ 4183 ] अन्तः-प्रदेशिभूपालचरित्रकोऽयं श्रीनिद्रि(?श्रीसिंह)चारित्रविनिर्मितश्च । सुवाचकानां श्रवणाप्तकानां कल्याणमालां प्रददातु नित्यम् ॥३२॥ श्रीमत्कोटिकसद्गणेन्दुदुकुलश्रीवज्रशाखान्तरे मार्तण्डर्षभसन्निभः खरतरव्योमाङ्गणे सूरिराट् । श्रीमच्छ्रीजिनराजसूरिरभवठ्ठीसिंहपट्टाधिपः श्रीजैनागमतत्त्वभासनपटुः स्याद्वादभावान्वितः ॥३३॥ तत्पादाम्बुजहंसरामविजयः संविध्न(!ग्न)सद्वाचको ऽभूज्जैनागमसागरप्रमथनैस्तत्त्वामृतस्वीकृतः । तद्वैनेयसुवाचको गुणनिधिः श्रीपमहर्षोऽभवत् । ___ श्यं श्यं (यः सं)विग्नविचारसारकुशलः पद्मोपमो भूतले ॥३४॥ तच्छिष्यः सुखनन्दनो मतिपटुः सद्वाचको विश्रुत स्तत्त्वातत्त्वविचारणे पटुतरोऽभूत्तत्त्वरत्नोदधिः । तद्वैनेयसुवाचकोऽब्धिजनकाद् वादीन्द्रचूडामणि निध्यान]सुरङ्गरङ्गतदृशोऽभूदात्मसंसाधकः ॥३५॥ तत्पट्टे महिमाभि[ध]स्ती(स्ति)लकयुक् सद्वाचकोऽभूद्वरः शिष्याणां हितकारको मुनिजनान्सि(ञ्छि)क्षाप्रवृत्तौ पटुः । तत्पट्टे कुमरुत्तरो मुनिवरोपाध्यायचित्राभिधः ख्यातोऽभूद्धरणीतले शमयुतो ब्रह्मक्रियायां रतः ॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy