________________
प्रशस्त्यादिसंग्रहः।
[२२७ व्याख्यानं प्रोक्तं वीक्ष्य निबद्धं लोकभाषया । अलेखि संस्कृतीकृत्य क्षमाकल्याणपाठकैः ॥२॥ संविग्नाचार्यपदस्थानां सुधीमतां [ गुणयुक्तानाम् ] । श्रीयुक्तामृतधर्माणां शिष्यैरामोदतस्त्वदः ॥३॥ त्रिभिर्विशेषकम् ।
इति मेरुत्रयोदशीव्याख्यानं समाप्तम् ।। [ 4157 ] आदिः-श्रीनेमीशं जिनं नत्वाऽजीमगञ्ज पुरे स्थितम् ।
दीपोत्सवस्य व्याख्यानं लिख्यते देवभाषया ॥१॥
अथ दीपा[व]लीपर्वप्रबन्धो लिख्यते । अन्तः इति श्रीअक्षयतृतीयाव्याख्यानं संपूर्णम् ।
___ संवत् १९२२ वर्षे श्रीशालिवाहनकृच्छाके १७८७ प्रवर्त्तमाने मासोत्तममासे माघमासे शुक्लपक्षे चतुर्थीतिथौ ४ शनिवासरे लिखावतुं(पितं) पं० प्र० श्री १०८ श्रीश्रीहंसराजजीगणि- तशिष्यपं० प्र० श्रीईसरचंदजीमुनिः तशिष्यपं० प्र० धनसुखमुनीनां स्वपठनहेतवे । लिपीकृतं पं० नारायणचन्द्रमुनिः श्रीबालूचरनगरमध्ये श्रीसंभवनाथजीप्रसादात् ।।
श्रीश्रीजिनदत्तसूरिजी-श्रीश्रीजिनकुशलसूरिजीप्रसादात् ॥ 751 अन्तः-इति राजाधिराजश्रीमदकब्बरसाहिक्षोणीपतिप्रदत्तातिमानमर्दितानेक
वादीन्द्राभिमानसिद्धिसौधसोपानसमानस्वकीयवचननिर्जितामृतपानसकलभट्टारकनाम्नि भालभूषणायमानभट्टारकश्री५श्रीविजयसेनस( सू )रीश्वरशिष्यपण्डितपीयूषपायिपरम्परापुरन्दरपण्डितश्रीकनकविजयगणिचरणपङ्कजभ्रमरसदृशगुणविजयगणिविरचिते श्रीमदरिष्टनेमिचरिते सुलिलतगद्यबन्धे नारायणसिद्धार्थदेवदृष्टान्तदर्शनबलदेवप्रतिबोधनकृष्णाङ्गसंस्करणदीक्षादरण-पञ्चमदेवलोकबजन-श्रीनेमिनाथपञ्चपं(पां)डवनिर्वाणवर्णनो नाम त्रयोदशः परिच्छेदः सम्पूर्णः ।
श्रीवीरपट्टाम्बुजसप्तसप्तिर्यस्याऽभवद् ज्ञानकणैकवप्तिः । स्वामी सुधर्मेत्यभिधानधारी यः पञ्चमोऽभूद् भुवि गच्छधारी ॥१॥ तत्पट्टपङ्क्त्यागतसूरिसिंहः सूरिजंगच्चन्द्र इति प्रति(ती)तः । अकारि येन प्रवरक्रिया या] उद्धार आधारतरो मुनीनाम् ॥२॥ शर-द्विपाम्बकोड्वीशमिताब्दे(१२८५) तपसोऽद्भुतात् । अलभद् यो तपानां [हि बिरुदं विदितं भुवि ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org