SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [२०७ श्रीमदप्रतिहतप्रभावस्याद्वादशासनगुहाभ्यन्तरनिवासिप्रवादिसिंधुरसिंहाय. मानसिंहनंदिमुनीन्द्राभिनंदितगंगवंशललामराजसर्वज्ञाद्यनेकगुणनामधेयभागधेयश्रीमद्राजमल्लदेवमहीधरवल्लभमहामात्यपदवीराजमानरणरंगमल्लासहायपराक्रमलुणरत्नभूषणसम्यकत्वरत्ननिलयादिविविधगुणनामसमासादितकीर्तिकान्तश्रीमच्चामुंडरायप्रश्नावतीणकचत्वारिंशत्पदनामसत्त्वप्ररूपणद्वारेणाशेषबिनेयजननिकुरम्बसंबोधनार्थः श्रीमन्ने मिचंद्रसैद्धान्तचक्रवर्तिसमस्तसैद्धान्तिकजनप्रख्यातविशदयशोविशालमतिरसौ भगवान् शास्त्रकारो महाकर्मप्रकृतिप्राभृतप्रथमसिद्धांत[व]ज्जीवस्थान-क्षुद्रबंधबंधस्वामित्वं-वेदनाखंड-वर्गणाखण्ड-महाबंधानां षदखण्डानां मध्ये जीवाप्रमेयांशं निरवशेषं समुद्धृत्य गोम्मटसार-पंचसंग्रहप्रपंचमारचयंस्तदादौ निर्विघ्मतः शास्त्रपरिसमाप्तिनिमित्ते नास्तिकतापरिहारार्थ शिष्टाचारपरिपालनार्थमुपकारस्मरणार्थ चेष्टविशिष्टदेवताविशेषं नमस्करोति । वृ० अन्तः-यत्र रत्नस्त्रिभिलब्धार्हन्त्यपूज्या नरामरैः ।। निर्वान्तिमूलसंघोयं नन्द्यादाचन्द्रतारकम् ॥ १ ॥ तत्र श्रीशारदागच्छो बलात्कारगणोन्वयः । कुन्दकुन्दमुनीन्द्रस्य नंद्याम्नायोपि नंदतुः ॥ ५ ॥ यो गुणैर्गणमृद्गीतो भट्टारकशिरोमणिः । भक्त्या नवीमि तं भूयो गुरुं श्रीशानभूषणम् ॥ ६ ॥ कर्णाटप्रायदेशेशजैनभूपादिभक्तितः । सिद्धान्तं पाठितो येन मुनिचन्द्र. नमामि तम् ॥ ७ ॥ योभ्यर्थ्य धर्मवृद्धयर्थ मह्यं सूरिपदं ददौ । भट्टारकशिरोरत्नं प्रमेन्दुः स नमस्यते ॥ ८ ॥ सूरेः श्रीधर्मचन्द्रस्याभयचन्द्रगणेशिनः । वणिलालादिभव्यानां कृते कर्णाटवृत्तितः ॥ ९ ॥ रचिता चित्रकूटे श्रीपार्श्वनाथालयेमुना । साधुसांगा-सहसाभ्यां प्रार्थितेन मुमुक्षुणा ॥ १० ॥ गोम्मटसारवृत्तिर्हि नन्द्याद् भव्यैः प्रवर्तिनी । शोधयन्त्वागमात् किंचिद्विरुद्धं चेद् बहुश्रुताः ॥ ११ ॥ निर्ग्रन्थाचार्यवर्येण त्रैविद्यचक्रवतिना । संशोध्याभयचंद्रेणालेखि प्रथमपुस्तकम् ॥ १२॥ इत्याचार्यश्रीनेमिचन्द्रकृतायां गोम्मटसारापरनामपंचसंग्रहवृत्तौ कर्मस्थितिरचमास्वभावो नाम नवमोधिकारः समाप्तः ।। वर्द्धतां जिनशासनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy