SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। [१९३ बृहस्पतिस्तिष्ठतु मंदबुद्धिः पुरंदरः किं कुरुते वराकः । मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोपि ॥१६३॥ सं० १५०१ माघशुदि ७ शुक्रे लिखितं हुगरपुरे ॥ [ 3396 ] आदिः- श्रीनाभिभूर्जिनवरः कुशलाय वः स्याद् यस्यांसयोरुपरिकुन्तलभारदम्भात् । भव्यांगिनां भवसमुद्भवतापशान्त्यै कादंबिनी किमु समुन्नतिमाततान ॥१॥ विश्वप्रशस्यगुणरत्नसमुद्ररुद्रपल्लीयगच्छगगनांगणशीतभासः । चारित्रपात्रमतिमात्रशमैकसत्रं श्रीसंघपूर्वतिलका गुरवो जयन्ति ॥५॥ तत्पट्टांभोजतिग्मांशुः श्रीदेवेन्द्रमुनीश्वरः । भोला-खेताभिधभ्रातृयुगेनात्यर्थमथितः ॥६॥ प्रश्नोत्तररत्नमालां विमलाचार्यनिर्मिताम् । विवृणोति सुदृष्टांतैः ह्युपकारी सतां श्रमः ॥७॥ युग्मम् ॥ अन्तः- __ समाप्ता चेयं प्रश्नोत्तररत्नमालावृत्तिः ॥ भास्वद्भरियशाः शशांकवदनः कन्दर्पदपापहः श्रीजैनागमपारगः शुचिमतिर्वादीन्द्रचूडामणिः । विश्वानन्दकरस्तमस्ततिहरः कारुण्यपाथोनिधिः सूरीन्द्रः स जयप्रभो विजयतां स्फूर्जत्प्रभावश्चिरम् ॥९॥ संवत् १५२३ वर्षे कार्तिकशुदि २ शुक्रे चाणसमानगरे चतुर्मासकस्थिते पूर्णिमापक्षे भट्टा०श्रीजयप्रभसूरिभिः स्वयं लिखिता वृत्तिः ॥ [3397] अन्तः- श्रीवर्द्धमानजिनशासनमेरुभूषाभूते सुधर्मगणनायकभद्रशाले । श्रीकोटिकाख्यगणकल्पतरौ सुवज्रशाखोऽत्र गच्छ इव राजति चन्द्रगच्छः॥१॥ तस्मिन् महोज्ज्वलफलोपमितं दधानः श्रीवर्धमान इति सूरिवरो बभूव । यस्याग्रतः समगृणोद्धरणोरगेन्द्रसूरीन्द्रमन्त्रविविधोपनिषत्प्रकारान् ॥२॥ ततोस्तदोषो नियतं विवस्वान् जिनेश्वरः सूरिवरः समासोत् । नोचेत् कथं श्रीधनपालचित्तान्महातमस्तोत्रमपाकरोद गाम् ॥३॥ तस्मात् बभूवाभयदेवसुरियः स्तंभनापार्श्वजिनेन्द्रमूर्तिम् । प्रकाश्य शस्याश्च नवांगीवृत्तिः(त्तीः) कृत्वा कृतार्थ स्वजनुस्ततान ॥४॥ तदनु जिनवल्लभाख्यः प्रख्यातः समयकनककषपट्टः । यत्प्रतिबोधनपटहोऽधुनापि दंध्वन्यते जगति ॥५॥ ततोजायत सद्विद्यः सूरिश्रीजिनशेखरः। यद्यशोहसितो नोष्णकैलाशं(?) शशिशेखरः ॥६॥ ततः प्रवादिवजपद्मचन्द्रः श्रीपद्मचन्द्रः समभून्मुनीन्द्रः। यः स्थापयत्येव तमोविवादं जगच्चकारास्ततमोविकारम् ॥॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy