SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [१८१ श्रीश्रीमालिसुवीरवंशकमले श्रीराजहंसोपमो रामाकुक्षिसमुद्भवो जयतसीदेहांगजो दीप्तिमान् । जातो योऽखिलसाधुकारतिलकः श्रीतेजसीश्रेष्ठिराट तेन श्राद्धवरेण यत्पदमहो द्रव्यव्ययैर्निर्मितः ॥६॥ सूरिभावप्रमेणास्यां तेनानाभोगतो मया । वृत्तौ पृथक्कृतायां यत् तच्छोध्यं विबुधैरसत् ॥७॥ त्र्यंकाश्व-भूमिते (१७९३) वर्षे माघशुक्लाष्टमीतिथौ । वारे देवगुरौ जाता पूर्णेयं वृत्तिरुत्तमा ॥८॥ इति श्रीमत्पूर्णिमागच्छोयभट्टार कश्रीभावप्रभसूरिसमुद्धृता प्रतिमाशतक लघुवृत्तिरिय शिष्यज्योतीरत्नस्य हेतवे संपूर्णा ॥ [ 3266 ] आदिः- सुधम्मस्वामिनं नत्वा तदीयवचनानुगम् । विशेषशतकं वक्ष्ये शिष्यप्रश्नोत्तरप्रदम् ।।१॥ अन्तः- श्रीमत् खरतरगच्छे श्रीमज्जिनसिंहमूरिगुरुराज्ये । साम्राज्यं कुर्वाणे युगप्रधानाख्यबिरुदधरे ॥१॥ विक्रमसंवति लोचन-मुनि-दर्शन-कुमुदबांधव(१६७२)प्रमिते । श्रीपार्श्वजन्मदिवसे पुरे श्रीमेडतानगरे ॥२॥ युगप्रधानपदवी श्रीअकब्बरसाहिना । येभ्यो दत्ता महाभाग्याः श्रीजिनचन्द्रसूरयः ॥३॥ तेषां शिष्यो मुख्यः स्वहस्तदीक्षश्च सकलचन्द्रगणिः । तशिष्यसमयसुन्द[र] सुपाठकैरकृत श[त] कमिदम् ॥४॥ इति श्रीसमयसुन्दरोपाध्यायविरचितं विशेषशतकं संपूर्णम् ॥ (सं०१६८७वर्षीयगूर्जरदेशाधिकृतदुष्कालवर्णनम्-) मुनि-वसु-षोडशवर्षे (१६८७) गुर्जर देशे च महति दुःकाले । मृतकैरस्थिग्रामे जाते श्रीपत्तने नगरे ॥१॥ भिक्षुकभयात् कपाटे जटिते व्यवहारिभि शं बहुभिः । पुरुषैर्माने मुक्ते सीदति सति साधुवर्गेपि ॥२॥ जाते च पंचर जतै[२] धान्यमणे सकलवस्तुनि महर्ये । परदेशगते लोके मुक्त्वा पितृ-मातृ-बन्धुजनान् ॥३॥ हाहाकारे जाते मारिकृतानेकलोकसंहारे । केनाप्यदृष्टपूर्वे निशि कोलिककुंटिके नगरे ॥४॥ तस्मिन् समयेस्माभिः केनापि च हेतुना च तिष्ठद्भिः । श्रीसमयसुन्दरोपाध्यायैलिखिता च प्रतिरेषा ॥५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy