SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ [ 3024] आदि: Jain Education International अन्तः १. प्रशस्त्यादिसंग्रहः । [१६५ योऽमुं क्षेत्रसमासं सम्यग्भावसारं पठति यश्च निशामयत्या कणयति तेभ्यः श्रुतांगदेवी द्वादशांगश्रुतरूपिणी उत्तमां श्रुतसंपदं ददातु । जिनवचनगतं विषमं भावार्थ यो विवेच्य शिष्येभ्यः । इत्थमुपादिशदमलं परो [प] का रेककृतचेताः ॥१॥ तं नमत बोधजलधिं गुणमन्दिरमखिलवाग्मिनां श्रेष्ठम् । चरण श्रियोपगूढं जिनभद्रगणिक्षमाश्रमणम् ॥२॥ वाचः क्व तस्य गम्भीराः परभागमुपागताः । क चाहं जडधीरेष स्वल्पशास्त्रकृतश्रमः ॥३॥ तथापि गुरुपादारविन्दद्वन्द्वप्रसादतः । जातकिञ्चिन्मतिस्फूर्तिरेनां टीकां व्यधामहम् ॥ ४ ॥ यदितमल्पमतिना जिनवचनविरुद्धमत्र टीकायाम् । विद्वद्भिस्तत्त्वज्ञैः प्रसादमाधाय तच्छोध्यम् ॥५॥ इममतिगम्भीरतरं क्षेत्रसमासं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुतां लोकः ॥६॥ अर्हतः शरणं सिद्धान् शरणं संयतानपि । शरणं जिननिर्दिष्टं धर्मं शरणमाश्रिताः ॥७॥ अर्हन्तो मंगलं सिद्धमगलं मम साधवः । मङ्गलं मङ्गलं धर्मस्तान्मंगलमशिश्रियम् । इति श्रीमलयगिरिविरचिता क्षेत्रसमासटीका पारमुपागमदिति ॥ इति बृहत्क्षेत्रसमासवृत्तिः संपूर्णमिति ॥ ( अन्य हस्ताक्षरोल्लेख :-) राय कंवरकी ॥ प्रणिपत्य परमभक्त्या चतुर्विधातिशयसंयुतं वीरम् । वक्ष्ये सुखावबोधां क्षेत्रसमासस्य वृत्तिमहम् ॥१॥ इति क्षेत्रसमासवृत्तिः समाप्ता । विरचिता श्रीहरिभद्रसूरिभिः ॥ पंचाशीते वर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । शुक्रवार सौम्ये पुष्ये शस्ये च नक्षत्रे ॥१॥ लघुक्षेत्रसमासस्य वृत्तिरेषा समासतः । कृता विबुधबोधार्थं श्रीहरिभद्रसूरिभिः ||२|| युग्मम् । सूत्रं सुखाद् बोधयन्ती वृत्तिरेषा तु सत्फला । आचन्द्रार्क श्लोकस्यैकादशपंचशतीमिति ॥३॥ अंकतो ग्रंथा० ५०११ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy