SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [१५७ परम्परायामपि तस्य जातः साधुक्रियामार्गविकाशभास्वान् । आनन्दपूर्वो विमलाग्रसूरिजगज्जनानन्दकरः प्रतीतः ॥३॥ तस्यापि पट्टे विजयाप्रदानः सूरिर्बभूव प्रबल प्रतापः । राशिं गुणानां किल यस्य वारांराशेः समानीकुरुते कवीन्द्रः ॥४॥ बभूव रिः किल तस्य पटे श्रीहीरपूर्वो विजयोर्जितश्रीः । लेभे प्रतिष्टां किल भूयसी यो नरेन्द्रलक्ष्मी(देवेन्द्रकृतामजस्रम् ॥५॥ तस्यापि पटेजनि सूरिराजः सेनोत्तरश्रीविजयो यशस्वी । ततार जैनागमवारिराशिं नावा स्वबुद्धयोत्तमभाग्यभाग्यः ॥६॥ विजयते किल तत्पदसेवया सुलभसूरिपदः प्रणयी गुरौ । विजयदेवगुरुगरिमाम्बुधिस्तपगणे गगने किमु चन्द्रमाः ॥ श्रीआनन्दविमलगुरुशिष्याः श्रीसहजकुशलनामानः । लुम्पाकमतमपास्याङ्गजमलमिव निर्मला जाताः ॥८॥ तेषां च शिष्यमुख्या वाचकवरसकलचन्द्रनामानः । चन्द्रा इव वचनसुधां ववृषुर्ये विबुधवरपेयाम् ॥९॥ श्रीशान्तिचन्द्रा वरवाचकेन्द्रास्तेषां च शिष्या बहशिष्यमुख्याः । बभूवुरुद्दामगुणैरुपेताः प्रभावकाः श्रोजिनशासनस्य ॥१०॥ श्रीमज्जम्बूद्वीपप्रज्ञप्तेवृत्तिविरचनाचतुराः । येषां बुद्धिं सुरगुरुरपीहते विश्वगेयशुभयशसाम् ॥११॥ -गीतार्या ॥ तेषां गुरूणां गुणसागराणां प्रसादलेशं समवाप्य चक्रे । अनेकशास्त्रार्थविचारसारः परोपकृद् वाचकरत्नचन्द्रः ॥१२॥ सम्यक्त्वसप्तत्यमलप्रबोधं बालावबोधं पटुधीसुबोधम् ।। सम्यक्त्वरत्नप्रवरप्रकाशनामानमेन समयानुसारात् ॥१३॥ युग्मम् ।। रस-मुनि-रस-शशि(१६७६)वर्षे पौषशुक्ले त्रयोदशीदिवसे । वर्षे पौषशुक्ले १३ मूरतिबंदिरमुख्ये परमाहतसंघरमणीये ॥१४॥ इति रत्नचन्द्रनामा चकार बालावबोधमतिसुगमम् । सम्यक्त्वसप्ततिवरप्रकरणतत्त्वार्थबोधकरम् ॥१५॥ सूर्याचन्द्रमसौ यावत् यावत् सप्त धराधराः । यावत् तपागणस्तावदयं जयतु पुस्तकः ॥१६॥ इति श्रीसम्यक्त्वसप्ततिकाप्रकरणबालावबोधः संपूर्ण: । सा. अमरसीपठनार्थम् ॥श्रेयोस्तु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy