SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ [ १५५ १. प्रशस्त्यादिसंग्रहः । ज्योतिस्तोमैरमानैः प्रतिहतजगतीवर्तितेजस्वितेजः स्फूर्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमामौ । श्रीमान् श्रीचन्द्रसूरि-विमलशशिगुरुश्चाप्रमेयप्रभावी जातौ श्रीराजहंसाविव भविकजनव्यूहबोधैकदक्षौ ॥७॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रबृन्दारकान् माद्यद्वादविधौ विजित्य जगति प्राप्तप्रतिष्टोदयाः । सूरीन्द्रा गुणशेखराः स्मयहराः शृङ्गारचन्द्रक्षमा नाथाभ्यय॑पदाम्बुजाः समभवंस्तत्पशृङ्गारिणः ॥८॥ श्रीसंघतिलकाचार्यास्तत्पदाम्भोजरेणवः । सम्यक्त्वसप्ततेवृत्तिं विदधुस्तत्वकौमुदीम् ॥९॥ अस्मच्छिष्यवरस्य सोमतिलकाचार्यानुजस्याधुन श्रीदेवेंद्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः । श्रीमद्विक्रमवत्सरे दिनयनांभोधिक्षपाकृत(१४२२)प्रमे श्रीसारस्वतपत्तने विरचिता दीपोत्सवे कुर्वता ॥१०॥ सा सोमकलशवाचकवरानुजैरत्र विहितसाहाय्यैः । प्रथमादर्श लिखितोपाध्यायश्रीयशःकलशैः ॥११॥ मेधामान्द्यात् प्रमादाच्च यदवद्यमिहाजनि । तत् प्रसद्य महाविद्याः शोधयन्तु विशारदाः ॥१२॥ द्वादशात्मैव सद्वारैादशात्मेव बोधकृत् । इयं सम्यक्त्वतत्त्वानां कौमुदी द्योततां भुवि ॥१३॥ प्रशस्तिश्लोक २५ अ०२२ । अथ सकलं ग्रन्थमानम्-. प्रत्यक्षरं निरूप्यास्या ग्रन्थमानं विनिर्मितम् । रुद्रादिमुनि(७७११)संख्याका[ : ] श्लोकाः सचतुरक्षराः ॥१॥ अनेन श्लोकेन सह ग्रन्थमानम् ७७११ अक्षर ४॥ अथ संवत्सरेऽस्मिन् श्रीविक्रमादित्यराज्ये १४८९ वर्षे पौषसुदि ३॥ [2940] मू० अन्तः- इति दर्शनसप्ततिका समाप्ता । लिखिता श्रीसोमजयसूरिशिष्येण श्रीपत्तन नगरे । अव० अन्तः इति सम्यक्त्वसप्ततिकावचूरिः ॥ पत्तननगरे लिखिता ॥ पं० आनन्दसहजगणिलिखिता ॥श्री॥ [2941] अन्तः- शशि-रस-मुनि-रसवर्षे (१६७६) पौषे शुक्ले त्रयोदशीदिवसे । पुरतिबंदिरमुख्य परमाहतसंघरमणीये ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy