SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ १५४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे वृ० अन्तः- अत्र शिवशब्दोपादानं सूत्रयता सूत्रकृता शास्त्रप्रांते मंगलसूचा कृता, यतो मंगलादीनि मंगलमध्यानि मंगलावसानानि शास्त्राणि विदुषामुपादेयानि निःश्रयसः साधकानि च भवन्तीति गाथार्थः ।। या श्रीजिनेन्द्रसमयाम्बुधितो गृहीत्वा .. सम्यक्त्वतत्त्वमणिसप्ततिका व्यधायि । पूर्वैर्मुनीश्वरवरैरधुना मया तु सोत्तेजिता विवृतिशाणकयन्त्रयोगात् ॥१॥ जनं वाक्यमनन्तार्थ शेमुषो त्वतिदुर्बला । अत उक्तं यदुत्सूत्रं तन्मिथ्या दुष्कृतं मम ॥२॥ इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरि-पट्टावतंसश्रीसंघतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां सम्यक्त्वस्थानषट्कस्वरूपनिरूपणो नाम द्वादशमोऽधिकारः समाप्तः । ग्रन्थानम् ५३६, अ० २५ । समाप्ता चेयं सम्यक्त्वसप्ततिकावृत्तिस्तत्त्वकौमुद्यभिधाना । अथ प्रशस्तिःश्री वीरशासनमहोदधितः प्रसूतः प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्याम् । माद्यन्महःप्रसरनाशिततामसोस्ति श्रीचन्द्रगच्छ इति चन्द्र इवाद्भुतश्रीः ॥१॥ तत्रासीद् धरणेन्द्रवन्धचरणः श्रीवर्द्धमानो गुरु. स्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरःशेखरः . तच्छिष्योऽभयदेवमूरिरभवद् रङ्गन्नवाङ्गीमहा___वृत्ति-स्तम्भनपार्श्वनाथजिनराइमूर्तिप्रकाशैककृत् ॥२॥ तत्पट्टपूर्वाचलचूलिकायां भास्वानिव श्रीजिनवल्लभाख्यः । सच्चक्रसंबोधनसावधानबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥३॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेतिविज्ञाग्रणी स्तत्पादांबुजराजहंससदृशः श्रीपचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रबोधैकधीः श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत्कलालंकृतः ॥४॥ पट्टे तदीयेऽभयदेवसूरिरासीद् द्वितीयोपि गुणाद्वितीयः । जातो यतोयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः ॥५॥ तत्पादाम्भोजभृङ्गोजनि जिनसमयोम्भोधिपाथोधिजन्मा सूरीन्द्रो देवभद्रोनुपशमरमाराममेघोपमानः । तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्डमार्तडकल्पः कल्पद्रुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy