SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ १४०1 मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे जगत्यपि कृताश्चर्य सुराणामपि दुर्लभम् । निशाकरकराकारं चरित्रं यस्य राजते ॥८॥ सच्चरणरेणुकल्पः सूरिः श्रीदेवचन्द्रसंज्ञोभूत् । तच्छिष्यो गुरुभक्तस्तद्विधधिषणो विनिर्मुक्तः ॥९॥ किंच-श्रीमदभयदेवाभिधसुरेयों लघुसहोदरः । स इह स्थानकवृत्तिं चक्रे सूरिः श्रीदेवचन्द्राख्यः ॥१०॥ मतिविकलेनापि मया गुरुभक्तिप्रेरितेन रचितेयम् । तस्मादियं विशोध्या विद्वद्भिर्मयि कृपां कृत्वा ॥११॥ आवश्यकसत्पुस्तकलेखनजिनवन्दनार्चनोयुक्तः । शय्यादानादिरतः समभूदिह वीहकः श्राद्धः ।।१२।। तद्गुणगणानुयायी श्रीवत्सस्तत्सुतः समुत्पन्नः । तद्वसतावधिवसता रचितेयं स्तंभतीर्थपुरे ॥१३॥ रस-युग-रुदै(११४६)वीतैर्विक्रमसंवत्सरात् समाप्तेयम् । फाल्गुनसितपंचम्यां गुरुवारे प्रथमनक्षत्रे ॥१४॥ अणहिलपाटकनगरे वृत्तिरिय शोधिता सुविद्वद्भिः । श्रीशीलभद्रप्रमुखैराचार्यः शास्त्रतत्त्वज्ञैः ॥१५॥ साहाय्यमत्र विहितं निजशिष्याशोकचन्द्रगणिनाम्ना । प्रथमप्रतिमालिखता विश्रामविवर्जितेन भृशम् ॥१६॥ प्रत्यक्षरं निरूप्यास्या ग्रंथमानं विनिश्चितम् । अनुष्टुभां सहस्राणि संपूर्णानि त्रयोदश ॥१७॥ अंकतोपि सहस्रग्रंथाग्रम् १३००० ॥ साहश्रीवच्छासुतसाहसहस्रकिरणेन पुस्तकमिदं गृहीतं सुतवर्द्ध मानशांतिदासपरिपालनार्थम् । [2800 ] अन्तः- सिद्धविग्गवग्गसायर पभणि सिरिदेवमूरि उद्धरिआ । जाव रविदिवसतरिआ ता जयउ जईण दिणचरिया ॥१९॥ ॥ इति श्रीसुविहितसि(शि)रोमणिश्रीदेवसूरिविरचिता यतिदिनचर्या संपूर्णा ॥ ___ संवत् १६०८ वर्षे शाके १४७४ प्रवर्त्तमाने वैशाखमासे शुक्लपक्षे १३ शुक्र चाणसमावास्तव्यश्रीश्रीमालज्ञातीयवेष्ठिहरषाभार्यालखमाई-हासा-धनासहितेन श्रीपूर्णिमापक्षे प्रधानशाषीयभट्टारकश्री६कमलप्रभसूरिपट्टे भट्टारकश्री ६ पुण्यप्रभसूरीणां प्रदत्तं श्राविका लखमाई स्वपुण्यार्थ वाच्यमानं चिरं नन्दतु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy