SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ १३६] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे वीरस्य सा(शा)सनं यावत् वर्तते विश्वदीपकम् । तावद् बालावबोधोयं तिष्ठतु शुद्धवासनः ॥१२॥ इति श्रीसकलभट्टारकशिरोमणिनां भटारकश्रीश्रीविजयदेवसूरीणां पट्टोदयाद्रौ सहस्रांशुश्रीविजयसिंहसूरयः अभूवन् । तेषां सकलविनेयजनशिरोरत्नं पं० श्रीसत्यविजयोऽभूत् । तत्शिष्यपं० कर्पूरविजयस्तत्शिष्यपं०श्रीक्षि(क्ष)माविजयस्त(शि)ध्यसकलसभाभामिनीभालस्थलतिलकाय मानपं० श्रीउत्तमविजय-शिष्यपं० पद्मविजयकृतबालावबोधे श्रीगौतमकुलक प्रकरणे एकादशाधिकैकशतकथानकानि समाप्तानि संपूर्णमस्तु ॥ [2709 ] आदिः- प्रसादमासाद्य यदंहिपद्मयो डोपि विद्वज्जनशेखरायते । सारस्वती सा मम मानसीतरे तनोतु हंसीव निवासमंजसा ।।७।। विश्वातिशायिमतयो गुणशालिरुद्र पल्लीयगच्छगगनांगणशीतभासः । सिद्धांतवारिनिधयो गणधारिणोमी नन्दन्तु संघतिलका गुरवोऽस्मदीयाः ॥८॥ येषां गुरूणामभिधा जगत्यामजिह्मवाग् ब्रह्ममयीव मन्ये । नो चेत् कथं तत् स्मृतिमात्रतोयं जनः कवित्वं तनुते जडोपि ॥९॥ तन्निर्देशात् स्वकृतेः श्रीमहानोपदेशमालायाः । वृत्ति सुखावबोधां कुर्वे स्वपरोपकाराय ॥१०॥ इह हि प्रकरणकारः प्रकटीकृतामृतायमानसत्पात्रदानोपदेशसारः संसारपारावारवारिप्रवाहप्रणिमज्जत्प्राणिगणनिस्तारणप्रवहणायमानागण्यपुण्यकाननोल्लासघनाघनसंरंभे श्रीदानोपदेशमालाप्रकरणप्रारंमे तत्त्वातत्त्वविवेकच्छेकास्तोकलोकचेतश्चमत्काराय प्रेक्षावत्प्रवर्तनाय शिष्टसमयप्रतिपालनाय दुरंतदुरितदूरीकरणाय च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयप्रयोजनसंबन्धबन्धुरां प्रथमगाथामाहसयलसमीहियकरणं रिसहजिणं पणमिऊण गाणधणं । दाणोवएसमालं भणामि मंगलमणीसालं ॥१॥ अथ ग्रन्थसमाप्तौ कविनामगर्मा मंगलाशिषमाहइइ संघतिलयगणहरसीसेण दिवायरेण रइएयं । दाणोवएसमाला कंठगया कं भूसेइ ॥१०॥ समाप्ता चे दानोपदेशमालाप्रकरणवृत्तिः ॥ विक्रमादित्यतोऽप्टेंदुवार्द्धान्दु(१४१८)मितवत्सरे । चक्रुर्देवेन्द्रसूरीन्द्रा वृत्तिमेतां मनोहराम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy