________________
[१३३
१. प्रशस्त्यादिसंग्रहः । ततपट्टे प्रथमः शमिप्रभुरभूदानंदमूरिः परः ।
संजज्ञेऽमरचन्द्रसूरिरखिलानूचानचूडामणिः । शश्वद् यस्य सरस्वतीप्रसरणे सिद्धेशितुः संसदि ।
प्राज्ञेश्चेतसि वेतसीतरुरसावाचार्यकं कार्यते ॥६॥
सिद्धांतोपनिषन्निषण्णहृदयो धौजन्मभूस्तत्पदे
पूज्यः श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रांत्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः ।
संतुष्टैः कलिकालगौतम इति ख्यातिवितेने गुणैः ॥७॥ गुरुः श्रीहरिभद्रोयं लेमेधिकवयःस्थितिः । मोहद्रोहाय चारित्रनृपनासीरवीरताम् ॥८॥ तत्पट्टे विजयसेनसूरयः पूरयति कृतिनां मनोरथान् । तद्वी वृषमसूतनूतना कामधेनुरिव सर्वकामदम् ॥९॥ गर्वात् पूर्वमनादरैरवहितैः पश्चात् ततो विस्मितैः
प्रस्विन्नैरनुविस्मृतात्मभिरथो वादेऽनुवादे क्षणात् । भाग्यैर्मामिमनीषिणां परिणता पुंस्त्वेन वागेष इ.
त्याक्षिप्तरथ सेव्यते स्म सहसा यः सादरं वादिभिः ॥१०॥ यस्योपदेशममृतोपमित निपीय श्रीवस्तुपालसचिवेश्वर-तेजपालौ । संघाधिपत्यमसमं जिनतीर्थतेजःसंवर्द्धना ज्जितश[त] क्रत् चक्रतुस्तौ ॥११॥ श्रीमद्विजयसेनस्य सौमनस्यं नमस्यते । यद्वासिता धृताः कैर्न गुणाः शिष्याश्च मूद्धसु ॥१२॥ शिष्यस्तस्य च लक्षणक्षणचणः साहित्यसौहित्यवा
नुद्यत्तर्कवितर्ककर्कशमतिः सिद्धांतशुद्धातुरः । श्रीधर्माभ्युदये कविः प्रविलसदुर्वादिगोत्रे पवि
स्तामेतामुदयप्रभाख्यगणभृद् वृत्ति व्यधात् कर्णिकाम् ॥१३॥ तस्याज्ञया विजयसेनमुनीश्वरस्य शिष्येण सेयमुदयप्रभदेवनाम्ना । योग्या विशेषविदुषामुपदेशमालावृत्तिः कथाग्रथनतोभिनवा वितेने ॥१४॥ प्रथमादर्श प्रथमानमानसो देवबोधविबुध इमाम् । स्थपतिरिव स्थापयिता गुरुषु नतोऽतनुत साहाय्यम् ॥१५॥ चांद्रे कुले कलशतः किल सूरिदेवानन्दाग्रशिष्यकनकप्रभसूरिनाम्नः । प्रद्युम्नसूरिरुदितः कवितासमुद्रमुष्टिंधयोम्बुवदशोधयदेष वृत्तिम् ॥१६॥ उत्सेकतोत्सूत्रनिरूपणाद् यैर्याशातना स्यात् तनुतापि काचित् । मिथ्यास्तु मे दुष्कृतमत्र साक्षी श्रीसंघभट्टारक एवं तीर्थः ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org