SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ १३० ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तत्पट्टे प्रभुतास्पदस्य पदवी प्राधान्यशाखापुषि लक्ष्ये पौर्णिमपक्षदक्षकलया श्रीसूरयः सांप्रतम् । राजन्ते महिमाप्रभाख्यगुरवः शब्दे च कोषे नये काव्येलंकृति-नाटके च गणिते जैनेंबुधौ छंदसि ॥५॥ यद्देशनारविरुचः शुचिकर्णजालेश्चित्रं प्रविश्य सदने हृदि भव्यजंतोः । विकालिकं शमसुधामयमुत्प्रकाशं नित्योदयं निदधते सुविबोधचन्द्रम् ॥६॥ तेषां पदाम्बुजरजःस्पृशनानुजीवी सन् भावरत्न इति नामतया सुशिष्यः । तच्छिष्य एव सहिजो इति नामतोसौ वैराग्यकल्पलतिका लिखिता ह्यनेन ॥७॥ संवत् नेत्र-रस-तुरंग-चन्द्रप्रमिते (१७६२) पुस्तकमिदं लिपीकृतम् । सर्वग्रन्थाग्रम् ७००८ ॥ श्रावणसुदि ११ दिने । [2534] अन्तः- इति वृत्तं मयोद्दिष्टं संश्रये षष्ठकेखिलम् । चान्यन्मु(न्म)या कृते ग्रंथोन्यस्मिन् द्रष्टव्यमेव च ॥७४ ॥ इति श्रीउमास्वामिकृतश्रावकाचारः समाप्ति(प्तः) । लिषितं लहीया श्रीकृष्ण अमरदत्तजी अमदावादमध्ये लक्षो(ख्यो) छे । संमत् १९५४ सुभ मी(ति) भाद्रवा सुद ४ थ ॥ [2544 ] अन्त:- नवांगवृत्तिकारश्रीअभयदेवसूरिविरचिता षोडशकवृत्तिः ॥ (अन्यदीयहस्तेन लिखितमिदम्-) वृद्धिविजयपठनार्थ मुम्बैमध्ये लषावि ।। [2545] अन्तः- अथवा हरिभद्रसूरेः स्तुति कुर्वाणोऽपर कश्चिदिदमाह वचनम्-ननु हारि भद्रमिदं हरिभद्रसूरेरिदं धर्मगतं वचनं प्रकरणाश्रयं तस्माद्धर्मश्रवणे बहश्रतसमीप एव यत्नो विधेयो बहुश्रुतेभ्यो हरिभद्राचार्यवचनार्थानुपलंभादेवं वचनमाहात्म्यद्वारेण स स्तौति कृत्वा विवरणमेतत् पुण्यं यदवापि तेन भव्यजनः । अध्यास्तां षोडशकलाशशिमंडलभास्वरं स्थानम् ॥ कृतिरियं श्वेतपटाचार्यस्य यशोभद्रसूरेरिति । इति षोडशकविवरणं समाप्तम् ॥ [2547] अन्तः- इति महोपाध्यायश्रीकल्याणविजयगणि-शिष्यमुख्यपण्डितश्रीलाभविजयगणि शिष्यपण्डितश्रीजिनविजयगणि-सतीर्थपंडितश्रीनयविजयगणि-चरणकमलचंचरीकपंडितश्रीपद्मविजयगणिसहोदरोपाध्यायश्रीज(यशोविजयगणिविरचिता योगदीपिका नाम्नी षोडशकवृत्तिः संपूर्णा समाप्ता । एषा षोडशकव्याख्या संक्षिप्तार्थावगाहिनी । सिद्धाऽक्षततृतीयायां न सा यदक्षयसिद्धये ॥१॥ इति षोडशकप्रकरणं संपूर्णम् ॥ ग्रन्थम् १३८८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy