________________
१२० ]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे जिनचन्द्रसूरियुगवरराजानां शिष्यमुख्यगणनायाम् । गणिसकलचन्द्रविबुधाः सद्गुरुभक्ताः सदा आसन् ॥ १ ॥ तेषां शिष्या मुख्याः वचनकला-कविकलासु निष्णाताः । तर्क-व्याकृति-साहित्य-ज्योतिः-समयतत्त्वविदः ॥ १२ ॥ प्रज्ञाप्रकर्षः प्राग्वाटे इति सत्यं व्यधायि यैः । येषां हस्तात् सिद्धिः संताने शिष्यशिष्यादौ ॥ १३ ॥ अष्टौ लक्षानर्थानेकपदे प्राप्य ये तु निर्ग्रन्थाः । संसारसकलसुभगाः विशेषतः सर्वराजानाम् ॥ १४ ।। तेषां शिष्यो मुख्यो वादी हर्षनन्दनो नाम्ना । मध्याह्नव्याख्याने सुपद्धति यत्नतश्चक्रे ।। १५ ॥ गाथालापकसूत्राणि कथा व्याख्याश्च पण्डितैः । शोध्यानि हितनिष्णातैः त्यक्त्वा मात्सर्यमुल्वणम् ॥ १६ ॥ त्रिक-सप्त-षडेकाब्दे(१६७३) अक्षततृतीयादिने । ग्रन्थोयं पूर्णतां प्राप्तः श्रीअहिल्लपुरपत्तने ॥ १७ ॥
ग्रन्थेस्मिन् ग्रन्थाग्रं षट्साहस्रीत्वेककेन संयुक्ता । सदनुष्टुभां समस्तं शस्ते व्याख्यानविख्याते ॥ १९ ॥
अंकतोपि ग्रन्थाग्र० ६००० ॥
अथ प्रशस्तिः --
नानाधर्मरतैविवेकविशदैर्भव्यांगिभिस्संकुलं
श्रीप्रल्हादनपार्श्वनाथविमलागारेण संशोभितम् । अस्ति स्वर्गविजित्वरं पुरवरं प्रल्हादनं पावनं
मन्ये चास्य हि लज्जया सुरपुरं नायाति दृग्गोचरम् ॥ १ ॥ विशालेस्तिं पुरे तस्मिन्नोशवंशोतिविश्रुतः । तस्मिन् वंशे पुरा ह्यासीत् पारेखान्वयभूषणः ॥ २ ॥ रामचन्द्रो धनी धर्मी कार्याकार्यविवेकभृत् । तत्सुतो दलछाचन्द्रो गुणज्ञोस्ति विशारदः ॥ ३ ॥ तस्याभूद् भगिनी नाम्ना पार्वती धर्मकर्मठा । ग्रन्थोयं लेखयांचक्रे तद्भात्रा तच्छिवाय च ॥ ४ ॥ स्वच्छे हत्तपोगच्छे विजयानन्दसूरयः । प्रसिद्धा भुवनेभूवन् शिष्यौघसेवितक्रमाः ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org