SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ [ ११९ १. प्रशस्त्यादिसंग्रहः । श्रीसिद्धार्थवसुन्धरेशतनयस्याद्वादिनः शासने ___ संताने तु सुधर्मणो गणभृतोऽवच्छिन्नपर्वक्रमे । श्रीमत्कोटिकसूरितः परिवृते श्रीकोटिकाख्ये गणे श्रीवज्ञा ज्रा ख्यमुनीश्वरप्रविवरच्छाखाविशेषे वरे ॥१॥ कुले चंद्रसंज्ञे गुरोश्चन्द्रसूरेः यशोभद्रतोरण्यवासे विशिष्टे । हरेर्भद्रसूरिः क्रमात् पट्टधारी गुरुदेवनामाभवद् ब्रह्मचारी ॥ २ ॥ वसतिमागैविकासनकारकः खरतरापरनामकधारकः । विमलमंत्रिनिषेवितपक्षजो धरणशककृताद्भुतदैवतः ॥ ३ ॥ श्रीवर्द्धमानोपि जिनेश्वरश्च सूरीश्वर[ : ] सोऽभयदेवसूरिः । युगप्रधानो जिनदत्तमूरिः श्रीराजगच्छे जिनचन्द्रसूरिः ॥ ४ ॥ श्रीभाणसोले जिनभद्रसूरिः भट्टारक[ ? कः ] श्रीजिनहंससूरिः । अनुक्रमात् शुद्धपरंपरायां माणिक्यसूरिर्गुणरत्नभूमिः ॥ ५ ॥ तत्पटांबुजचंचरीककरणिः श्रीराहडीये कुले भास्वभास्करपुङ्गवः शशकरो जाग्रत्कलाभिः कलौ । स्याद्वादाभिधनागलोकविबुधश्रेणिषु वाचस्पतिः श्रीमच्छ्रीजिचन्द्रसूरिसुगुरुयोगः( ?यौ'ग)प्रधानः क्षितौ ॥ ६ ॥ येषां हस्तप्रभावातिशयमभिदधुर्मन्त्रिकर्मादिचन्द्राः श्रीमत्साहीशसाहेरकबरनृपतेः प्राप्तसभ्यप्रतिष्ठाः । स्थाने स्थाने प्रकृष्टा नरपतिविदिताः श्रावका ऋद्धिमन्तः संघाध्यक्षा विपक्षप्रतिभयजनकाः लक्षसंख्या विशेषात् ॥ ७ ॥ येषां वासविशेषमंत्रमहिमां संदर्शयांचकिरे जोगी-संघप-सोमजीप्रभृतयः प्राग्वाटवंशोद्भवाः। गच्छोऽतुच्छतरो गणेषु सकलेवेकप्रतिष्ठास्पदं शिष्याः सर्वविशिष्टशास्त्रविबुधाः शिष्यप्रशिष्यान्विताः ॥ ८ ॥ येषां दर्शनमात्रविस्मितमनाः ढिल्लीभवः साहिराद जीवामारिमनेकदेशनगरानाUNकेषु व्यधात् । येभ्यस्तीर्थकरस्तदीयनृपतेः कोशं परित्यक्तवान् येभ्यः साधुजनाः तुरुष्कनृपतेदेशे विहारं व्यधुः ।। ९ ।। संप्रापुः स्वर्गलोकं कृतसुकृतधनाः इम्मबेन्नातटेऽस्मिन् तेषां पट्टे पटिष्ठाः युगवरपदवीप्राप्तपूर्वाः[--] । प्रत्यक्षं विद्यमानाः गुरुगुणकलिता जैनसिंहा यतीन्द्राः तेषां राज्ये सुराज्यप्रतिमगुणिजने दीप्तिम [च्छा ]द्धवर्गे ॥ १० ॥ त्रिभिर्विशेषकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy