________________
११४ ]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
आगरां गतोऽजमेरपुरं यावदध्वनि प्रतिकोसं कूपिकोपेतमनारान विधाय स्वकीयाऽखिलखेटकलाकुस(श)लताप्रकटनकृते प्रति मनारं शतसो(शो) हरिणविषाणाद्यारोपणविधानादिना प्राग् हिंसाकरणरतिरपि स भूपः दयामति(तिः) संजातः। ततः श्रीसाहिरवदत् यत् श्रीमन्तो मया दर्शनोत्कंठितेन दूरदेशादाकारिताः । अस्मदि(दी)यं च न किमपि गृह्यते । तेनाऽस्मत्सकाशात् श्रीमद्भिरुची(चि)तं याच्यम् ।
ततः विचार्य श्रीगुरुभिस्तदीयाऽखिलदेशेषु पर्युषणापर्वसत्काष्टाहिकायाममारिप्रवर्त्तनं बन्दिजनमोचन(नम)याचि । तद्गुणचमत्कृतमनसा श्रीसाहिना अस्मदीयान्यपि चत्वारि दीनानि समधिकानि भवतु इति कथयी(यित्वा स्ववशीकृतदेशेषु श्रावणबहुलदशमीतः प्रारभ्य भाद्रपदशुक्लषष्ठी यावदमारिप्रवर्तनाय द्वादशदिनामारी(रि)सत्कानि कांचनरचनांचितानि स्वनामांकितानि षट्फूरमानानि त्वरितमेव श्रीगुरूणां समर्पितानि । प्रथमं श्रीगुर्जरदेशीयम् । द्वितीय मालवदेशसत्कम् । तृतीयं अजमेरदेशीयम् । चतुर्थ दिल्ली-फतेपुरसत्कम् । पञ्चमं लाहोर-मुलतानदेशसत्कम् । श्रीगुरुपार्श्वे रक्षणाय । षष्ठं देस(श)पंचकसम्बधि साधारणं चेति। तेन तत्तद्देशेष्वमारिपट्ट(ट)हो विस्तृतः । तथा श्रीगुरूणां पादुित्थाय तदेवानेकगव्यूतमिते डाबरनाम्नि महासरसि गत्वा साधुसमक्षं स्वहस्तेन नानाजाति(ती)यानां देशांतरीयजनप्राभृति(ती)कृतानां पक्षिणां मोचनं चक्रे । तथा कारागारस्थबहुजनानां बन्धनभंजनमप्यकारि ।
ततः श्रीगुरुणा साहिप्रार्थनया वाचकश्रीशांतिचन्द्रा महादक्षाः तत्र धर्मश्र(श्रा)वणार्थ निहिताः। तैः स्वोपज्ञकृपारसकोशाख्यशास्त्रजलेन सित्का(का) सती ब्रधिपति(वृद्धिमती) कृपालुता श्रीसाहिहृदये बभूव । तदभिज्ञानं च । श्रीमत्साहिजन्मसम्बन्धी मासः श्रीपर्युषणापर्वसत्कानि द्वादशदिनानि सर्वेपि रविवाराः, सर्वसंक्रातितिथयः, नवरोजसत्को मासः, सर्वे ईदिवासराः, सर्वे मेहरवासराः । सोफीआनवासराश्चेति षण्मासिकामारिप्रवर्तनसत्कफुरमानम् । जीजीआकरमोचनपुरमानानि च श्रीसाहिपार्थात् समानीय समर्पितानि श्रीगुरूणां दील्याम् । अकबरपातसाहेन श्रीहीरगुरुं विज्ञाप्य शांतिचन्द्रोपाध्यायाः धर्मतत्त्वपृच्छार्थ वन्दनार्थ रक्षिताः । प्रत्यहं तं वाचकमुख्यं भजते ।
एकदा श्रीसाहिपुरः आमलप्रमाणद्वयमुक्ताफले केनचिदिभ्येन प्राभृति(ती)कृते तं सन्मान्य ततः स्वकोशाध्यक्षं १, चामरधारकं १२, हजारिमनसुबबिभ्रतं च तं प्रति ते फले स्थापनाय प्रदत्ते । सोपि स्वगृहे गतः स्वभार्याय दत्तवान् । सापि स्नानार्थ समुत्सुका स्ववस्त्र बध्वा स्नानं चकार । तो सरुचिना इति सा शिक्षिता । इमें मुक्ताफले पातसाहसत्के स्ति(स्तः), त्वया सम्यग् रक्षी(क्षणीये। ततः सा स्वेष्टस्थले मुमोच । कतिपयवासरेषु विगतेषु सा तु मृता ।
___ अथ कतिचिदिनेषु व्यतीतेषु साहिना ते मागिते । स प्राह-साहिब ! मद्गृहे गत्वा शीघ्रं समानयामि । ततः स गृहे गत्वा सर्वत्र विलोकिते ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only