SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ १०६ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [ 1968 ] मू०आदिः- दुरियरयसमीर मोहपंकोहनीर० । वृ०आदिः- श्रीजिनाय नमः ॥ वर्द्धयतु वर्द्धमानः श्रीसिद्धान्तरुचिवाचकोवाच । चित्तचमत्कृतिचतुरं चतुरनराणां वचो यस्य ॥१॥ अन्तः+-' इति श्रीमहावीरचरित्रटीका समाप्ता ॥ लिवी(पी)कृतं वा साधुहर्षगणिना ॥ श्रीखरतरगच्छेशश्रीमज्जिनभद्रसूरिशिष्याणाम् । जीरापल्ले: पार्श्वप्रभुलब्धवरप्रसादानाम् ॥१॥ . श्रीग्यासदीनसाहेमहासभालब्धवादिविजयानाम् । श्रीसिद्धान्तरुचिमहोपाध्यायानां विनेयेन ॥२॥ साधुसोमगणीशेनाक्लेशेनार्थप्रबोधिनी । श्रीवीरचरिते चक्रे वृत्तिश्चित्तप्रमोदिनी ॥३॥ मतिमन्दान्मोहाद् वा प्रमादतो वात्र किंचनापि मया । यत् सूत्रितमुत्सूत्रं तन्मिथ्यादुःकृतं मेस्तु ॥४॥ अत्रानागमिकं युक्तिरिक्तं वा यत् पदं क्वचित् । विद्वद्भि[रा]रभि(चि)ता सद्भिस्तच्छोध्यं शुद्धबुद्धिभिः ॥५॥ जिनवल्लभसूरींद्रसूक्तिमौक्तिकपंक्तयः । दर्शितार्थाः सुदृष्टिना सुखग्राह्या भवन्त्विति ॥६॥ भावी(व)चरित्रपंचकवृत्तिविहिता नवैकतिथि(१५१९)वर्षे । हर्षे हर्षेण महर्षिगणैः प्रवाच्यमानां चिरं जयतु ॥७॥ इति श्रीवीरचरित्रटीका संपूर्णा ॥ संवत् १७३७ वर्षे मगसिरवदि ७ दिने विभाते लिखितं श्रीस्तंभतीर्थमध्ये। [1973 ] मू आदिः- श्रीगुरुभ्यो नमः नमितसुरनरालिवातपादारविन्द " विदितसकललोकालोकसहयवंदम् । सविनयमथ नत्वा वर्द्धमानं जिनेशं किमपि विरचयेह तत्स्तवस्यार्थलेशम् ॥१॥ पूर्व तावच्छ्रीपादलिप्तसूरयोऽनेकयोगसिद्धान्तमहान्तः प्रभावकपुरुषा आसन् । तदन्वये सकलज्ञानविज्ञानविज्ञाः श्रीपुण्यतिलकसूरयो विहरन्तोऽवंतीपुर्या समेतास्तत्र च श्रीविधिपक्षगच्छाधिराज-सरस्वतीलब्धप्रसादश्रीमन्महेन्द्रसिंहसूरयः संति। तेषां महिमानं सकलनागरिकजननिकरवदनकमलालंकारायमानं श्रुत्वा विद्यामदध्मातचित्ताः श्रीपुण्यतिलकसूरयो वादलिप्सया श्रीगुरुसमीपमागता। उक्तं च भो ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy