________________
८६]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे दशवैकालिकटीकां विधाय यत् पुण्यमजितं तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः ॥२॥ दशकालिकानुयोगात् सूत्र-व्याख्या पृथक्कृता । हरिभद्राचार्यकृतान्मोहाद् भक्तयाऽथवा मया ॥३॥ श्रीमद्बोधकशिष्येण श्रीमत्सुमतिसूरिणा । विद्वद्भिस्तत्र नो द्वेषो मयि कार्यों मनागपि ॥४॥ यस्माद् व्याख्याक्रमः प्रोक्तः सूरिणा भद्रबाहुना । आवश्यकस्य नियुक्तौ व्याख्याक्रमविपश्चिता ॥५॥ सूत्रार्थः प्रथमो ज्ञेयो नियुक्त्या मिश्रितस्ततः । सर्वैाख्याक्रमैर्युक्तो भणितव्यस्तृतीयकः ॥६॥ प्रमादकार्यविक्षेपचेतसां तदयं मया । क्रियाया अवबोधार्थ साधूनां तु पृथक्कृतः ॥७॥ लब्ध्वा मानुष्यकं जन्म ज्ञात्वा सर्वविदां मतम् । प्रमादमोहसंमूढा वैफल्य ये नयन्ति हि ॥८॥ जन्म-मृत्यु-जरा-व्याधि-रोग-शोकायुपद्रुते । संसारसागरे रौद्रे ते भ्रमन्ति विडम्बिताः ॥९॥ ये पुनर्ज्ञान-सम्यक्त्वचारित्रविहितादराः । भवाम्बुधिं समुल्लवय ते यान्ति पदमव्ययम् ॥१०॥
ग्रन्थाग्रम् २६०० ॥ कल्याणमस्तु ॥ [ 1040] अन्तः- (पुस्तकलेखनानन्तरं लिखितमिदम्- )
संवत् १६९४ वर्षे श्रावणशुदि ९ गुरुदिने श्रीसागरचन्द्रसूरिशाखायां श्रीवा-जयनिधान-तच्छिष्यपंडितोत्तमश्री ३ लब्धिसिंघजी-तच्छिष्यपं०उदय. सिन्धुरस्य श्रीनानाविधरसिकश्रीसाधारणपुरवास्तव्यमंत्रिश्रीचतुरसालेन श्रीज्ञाना
वरणीकर्मक्षयार्थ परि(प्र)तिरियं प्रदत्तास्ति स्वपुन्यार्थम् । [1043 ] अन्तः- इति द्वितीया चूलिका समाप्ता ॥
सं० १५२९ चैत्रवद १३ शुक्रे यशस्तिलकमुनिनैषाऽवचूणिः कृता ॥ [ 1045] अव०अन्तः- इति दशवैकालिकाऽवचूरिः समाप्ता ॥
इति विविक्तचर्यानाम द्वितीयाचूलाऽवचूरिः समाप्ता ॥
___ संवत् १६७२ वर्षे ज्येष्ठवदितृतीया शनिवासरे लिषतं मया स्वात्मार्थे
पठनार्थे राषीशुभस्थाने । कल्याणमस्तु सर्वजगतः शुभं भवतु लेखक-पाठकयोः । [1046 ] मू०अन्तः- इति श्रीदशवैकालिकसूत्रं समाप्तम् ।
संवत् १६१६ वर्षे चैत्रमासे कृष्णपक्षे दशमि(मी)दिने शुक्रवासरे सेणोरापाडे
लिषतं पांडे दासूः ॥ अव०अन्तः- इति श्रीदशवैकालिकाऽवचूर्णिरक्षरार्थगमनिका समाप्ता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org