SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ [७९ १. प्रशस्त्यादिसंग्रहः । ग्रन्थाग्रमानमुदितं पंच सहस्रं च सार्द्धसप्तयुतम् । गुण-मुनि-मुनि-विधुवर्षे (१७७३)माघमासेऽष्टमीघस्रे ॥४॥ श्रीसुरतिबिंदरोयशाखापुरसैदपुराभिधानेस्मिन् । श्रीविमलशान्तिकृतः प्रसादात् सदा भद्रम् ॥५॥ इति श्रीपाक्षिकसूत्रक्षामणासंपूर्णः ।। संवत् १९१७ वर्षे श्रावणसुदी १२ सनी(शनि)वासरे संपूर्णम् ॥ पठनार्थ साधवी सणगारसरीजी ॥ . [ 966 ] अन्तः- संवत् १६८२ वर्षे श्रीमदञ्चलगणाधिराजयुगप्रधानभट्टारकश्री ५ श्रीकल्याण __ सागरसूरीश्वरैः श्रीउत्तराध्ययनसूत्रं सर्वप्राज्ञशिरस्कोटिरपण्डितश्रीविशालकीर्तिगणये प्रदत्तम् । श्रीभीन्नमालनगरवास्तव्यसं०सूरा-भार्याकस्तूराइनाम्न्या लिखापितम् ॥ [ 967 ] अन्तः- संवत् १५६८ वर्ष वैशाखमासे शुक्लपक्षे पञ्चम्यां तिथौ गुरुवासरे पुष्य नक्षत्रे अद्येह श्रीपत्तनमध्ये श्रीश्रीमालवंशे ढंढेर कुटुम्बे दोसीपूनमसी-भार्याप्रथमाकुंअरी-द्वितीयारूडी एतच्छास्त्रं कुंअरिश्राविकायाः स्वपुण्यार्थ परोपकाराय च लिखाप्य श्रीपूर्णिमापक्षे प्रधानशाखायां श्रीजयप्रभसूरि- पट्टोदयगिरिदिनकराणां पूज्यश्रीपरमगुरुभट्टारकप्रभुश्रीभुवनप्रभसूरीणां प्रदत्तम् । चिरं जीयात् पुस्तककोशे पुस्तकमिदम् ॥ [968 ] अन्तः- संवत् १५०५ वर्षे मार्गशुदि २ गुरौ श्रीउपकेशवंशे सोनीजसराज-भार्या श्रा०अमरीनाम्न्या पं०ज्ञानमूर्तिगणोनां श्रीउत्तराध्ययनसूत्रं लिखाप्य प्रदत्तम् ॥ [969] अन्तः -- (अन्यहस्ताक्षरेण विशेष:-) मु०षीमचन्द जीने राजी थइने यापो छे । पं०ज्ञानविजयगणिः । [ 970 ] अन्तः- संवत् १६७६ वर्षे भाद्रपदमासे सितपक्ष्ये(क्षे) द्वितीयाकुजदिने वाणारीसश्री ६[विद्यासुन्दर-तत्शिष्य वाणारीसश्री ६ तेजसुंदर-तशिष्यवाणारीसश्रीसुन्दरतत्शिष्यऋषिधनसुन्दरेण इदं पुस्तकं वाच्यमानं कृतवान् श्रीगुडीप्रसादात् ग्रन्थाग्रम् २३५५ परिपूर्णम्, श्रीसंखेश्वरापार्श्वनाथप्रसादात् श्रीडांगराग्रामे । [976 ] अन्तः- संवत् १५२९ वर्षे मार्गशिरशुदि ६ शुके । चित्कोशे चिन्ताकारिभं० जय. मन्दिरगणिना उपक्रमेण मराजाकेन लिखिता श्रीउत्तराध्ययनचूर्णिः ।। श्रीसीमंधरस्वामिने नमः । अस्ति स्वस्तिकरश्रीगूर्जरधरणी सुलोचनाकारम् । अणहिल्लपाटकं पुरमपरप्रवरशृङ्गारम् ॥१॥ सौधश्रेणीमनोहरे प्रतिपदं प्रासादशोभावरे श्रीमान् श्रीअणहिल्लपाटकपुरे पुण्यकरत्नाकरे । श्रीश्रीमालविशालवंशतिलकः प्रौढप्रतिष्ठास्पदं ____ जातः श्रीमदनः सहर्षवदनः साधुः सदा नन्दनः ॥२॥ तदङ्गजो विश्रुतनामधेयस्त्रैलोक्यलोकाद्भुतभागधेयः । बभूव भूवल्लभरूपधेयः श्रीदेवसिंहः स्वकुलैकसिंहः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy