SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ [७५ १. प्रशस्त्यादिसंग्रहः । पुत्रादिसुपरिच्छदेन सहितो विक्रीय सारं धनं श्रीमत्थोजिनभद्रसूरिसुगुरोः शिष्टेमहाविस्तरात् । चन्द्राष्टाम्बुधि-शर्वरीपति(१४८१)मिते वर्षे महेवापुरे चके क्षुल्ल कपाठकादिपदवीसंस्थापनाया महम् ॥१३॥ इतश्चवीरशासनमहाजलधिप्रऋद्धिचञ्चत्स्फुरच्छशिकरप्रकरोपमानः । माद्यन्मतान्तरकरिव्रजपञ्चचक्रः श्रीमांश्चिरं विजय[ते] भुवि चन्द्रगच्छः ॥१४॥ तस्मिन्नभूत् श्रीजिनदत्तसूरि[:] योगीन्द्रचक्री सुगुणैकधाम । तद्वंशपंकेरुहषण्डचन्द्रकान्तिर्गुरुः श्रीजिनचन्द्रसूरिः ॥१५॥ षत्रिंशद्वादजेता जिनपतिरभवत् सूरिरुरीकृतोरु श्रीमत्पदस्थानकादिप्रकरणविवृतिप्राप्तगुण्योपकारः । सिद्धान्ताम्भोजहंसो यतिपतिमुकुटो भाग्यलक्ष्मीनिवासो भ्राग्यन् मथ्यान्धकारे रविकरसमोरैर्गच्छरीतेर्विधाता ॥१६॥ मतङ्गजगति तो जिनेश्वरमुनीश्वरः । संयमारामसंवृद्धिभाद्रीय जलदोपमः ॥१७॥ जिनप्रबोधपूरीन्द्रचन्द्रो विश्वावबोधकृत् । जिनचन्द्राभिधः सूरिश्चन्द्रगच्छावतंसकः ॥१८॥ जात्यः श्रीजिनकुशलः सूरिः सुरीसमद्युतिः । संघस्याभिमतकृतौ छेकिल: कोकिलध्वनिः ॥१९॥ तदास्पदे श्रोजिनपद्ममूरिः पद्माकरः पद्मसमानपादः । तदन्वये श्रीनवलक्षशाखाविभूषणः श्रीजिनलब्धिसूरिः ॥२०॥ संजातो जिनचन्द्रः कन्दोभीष्टार्थसिद्धिवल्लीनाम् । तत्पट्टेऽप्युदयकरो जिनोदयाख्यो गुरुर्जयति ॥२१॥ भाग्यलक्ष्मीसमाश्लिष्टाः सोमवत् सौम्यमूर्तयः । कलाकेलिगृहं जजुर्जिनराजयतीश्वराः ॥२२॥ पादप्रचारेण पवित्रयन्तः शशाङ्कवद् भूमितलं समस्तम् । विकासयन्तो जनकरवाणि जयन्ति ते श्रीजिनभद्रपूज्याः ॥२३॥ मिथ्यातमच्छन्नदृशां जनानां कत्त प्रकाशं तपनायतेऽदः । ज्ञानं भवेल्लेखितमक्षरायाधीतं श्रुतं पाठितमत्र रुच्याः ॥२४॥ इति । तेषामुपदेशादाशाकः सुपरिवारसंयुक्तः । लेखयति स्म विशेषावश्यकविवृति स्वपुण्यार्थम् ॥२५।। यदलेखि पत्तनपुरे श्रीमत्यणहिल्लनामके प्रवरे । तद् वाच्यमानमनिशं विबुधगणैनन्दतात् सुचिरम् ॥२६॥ इति श्रीविशेषावश्यकवृत्तिप्रशस्तिः ।। संवत् १४८०(५)वर्षे शुभं भवतु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy