SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । श्रीसाधुरत्नाभिधपंडितेशाः स्वकीतिविद्योतितसर्वदेशाः । यथास्थितं जैनमतं जनानां प्रकाशयन्तः सुखदा अभूवन् ॥१॥ तदीयपादाम्बुजयुग्मभृङ्गास्त्यक्ताखिलारम्भपरिग्रहौघाः ।। जयन्ति संवेगसुधैकपानाः श्रीपार्श्वचन्द्राभिधसूरयोऽमी ॥२॥ सूत्रं समालोक्य गुरोरयं यैः प्रकाशितः श्रीजगदीशपन्थाः । यमाश्रिता भव्यजना भन्ति सुखं सुखानां परमश्रितांतम् ॥३॥ ये वादिनः कर्कशतर्कवित्तिस्तब्धाः स्वभिन्मानबुधान् विदन्ति । विलोक्य विद्यादिगुणैः समेतानेतान्नतास्तेऽपि भवन्ति सद्यः ॥४॥ एतेऽर्हतां चैत्यमुदाहरन्ति मुक्यर्थिभिर्मुक्तिनिमित्तमय॑म् । पुष्पादिपूजां चरितादिवादैः प्रकाशयन्तो न निषेधयन्ति ॥५॥ गीतार्था जिनशासने बहुतराः सन्त्येव साहित्ययुक् षटतर्कीपरितर्ककर्कशतमप्रज्ञाबलोल्लासिनः । किन्त्वेतैः सदृशो न कोपि भुवने दृष्टः श्रुतो वा कृती विज्ञाश्चेदनृतं वदाम्यहमिदं तत् कथ्यतामेष मे ॥६॥ तेषां गुरूणां गुणसागराणां श्रीपार्श्वचन्द्राभिधसूरिराजाम् । शिष्योस्त्ययं ब्रह्ममुनिर्विपश्चिच्चुलुक्यवंशोद्भवराजपुत्रः ॥७॥ इतश्चभुवि भूषणं जनपदो जयी गुर्जराभिधोऽनहिल्लपुरपत्तनं जयति नाम्ना परम् । स्फुरद्वरजिनालयैर्जिनवरेन्द्रपूजा मिलन्महाजनमनो धनप्रमदपूरसंपूरकैः ॥८॥ टीकेयं तत्र कृता ब्रह्मविदा ब्रह्मसाधुनानेन । श्रीमज्जम्बूद्वीपप्रज्ञप्तेर्मतिमतामुचिता ॥९॥ यद्यपि जम्बूद्वीपप्रज्ञप्तिर्बहुतया गभीरार्था । व्याकर्तुमिह न शक्या विबुधैरपि किं पुनर्मनुजैः ॥१०॥ अर्थस्तथापि कथितो मया यदस्याः सुतुच्छमतिनापि । निजगुरुकरुणापूर्वाचार्यग्रन्थप्रभावोऽयम् ॥११॥ श्रीमद्विजयदेवाख्याः सूरयो विजितारयः । ये क्षमाराजिता नित्यमक्षमाराजिता भुवि ॥१२॥ धर्मस्नेहधरैरेषा शोधिता यत्नतोति(? पितैः । न्याय-लक्षण-साहित्यप्रभृतिग्रन्थपारगैः ॥१३॥ जिनवरवचनविरुद्धं किमपि मया यत् प्रमादतो भणितम् । ॥ मे भवतु तद् दुरितम् ॥१४॥ त्रिभिर्विशेषकम ॥ खेदः कोपि न तत्र नः खलजनो निन्दत्यमं यत्कृति हर्षों नाप्यथवा स्वभावसुजनः स्तौति प्रकृत्यैव यत् । किन्त्वेतद्गुणभूषणे दृढतरे जातस्य एव स्तुति निन्दा वा भवतीह या मतिमतामेषैव मोदादिकृत् ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy