SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। गुरुगमनयभङगीसंगरगन्नवाङ्गी नवविवृतिविधानव्यक्तविस्फारकीतिः । सुगुरुरभयदेवः स्तंभनाधीशपार्श्व प्रकटनपटुरासीच्चक्रवर्ती बुधानाम् ॥४॥ चामुंडिकाप्रकटबोधनबद्धकक्षाः सूत्रोक्तमार्गभणनाच्चरणकदक्षाः । चित्ते वसन्तु जिनवल्लभनामधेयाः सूरीश्वरा भुवनभासुरभागधेयाः ॥५॥ येषां रैवतकाचले कृततपः श्रीनागदेवाभिध श्राद्धाराधितयाऽम्बया किल युगप्राधान्यमाविःकृतम् । श्रीजैनेन्द्रमतप्रकाशनपटुप्रागल्भ्यलक्ष्मीजुष स्ते श्रीमज्जिनदत्तमूरिगुरवो यच्छन्तु मे वाञ्छितम् ॥६॥ तत्पदकमलमरालं ददतं फलमतुलमीप्सितविशालम् । नरमणिमण्डितभालं स्तवीमि जिनचन्द्रसुरसालम् ॥७॥ भूभृत्सभामध्यम[था] ध्यगच्छद् वादेषु षदत्रिंशतिथं(क) जयश्रीः । अभूत् स विद्वज्जनवृन्दचक्री ततस्ततश्रीर्जिनपत्तिसहिः ॥८॥ श्रीमज्जिनेश्वरगुरुं जितवादियो, सूरीश्वरं तदनु नौमि जिनप्रबोधम् । श्रीजैनचन्द्रसुगुरुं नुतनिर्विशेष सद्देशनाकृतचतुर्नुपतिप्रबोधम् ॥९॥ यत्संस्मृतिप्रवणमानसमानवाना. माविर्भवन्ति भुवि सर्वसुखप्रतानाः । प्रत्यूहसंहतिभुजङ्गमवैनतेयं । सूरि जिनाद्यकुशलं तमहं भजेयम् ॥१०॥ जिनपद्मसूरिराज- जिनलब्धिगुरुं नतोत्तमसमाजम् । जिमचन्द्रं निर्व्याजं जिनोदयं नौमि जिनराजम् ॥११॥ पटे तदीये जिनभद्रसूरिः सौभाग्यभाग्यैकनिधिर्दिदीपे सूत्रार्थजाम्बूनदसत्परीक्षाकषोपपन्नप्रविशुद्धबुद्धिः ॥१२॥ निरुपमप्रतिभाप्रतिभासनः स जिनचन्द्रविभुः शुभशासनः । तदनु तस्य प्रशस्यगुणोदधिर्जिनसमुद्रगुरुः सुपदं दधिः ॥१३॥ तदीयपट्टाम्बुजराजहंसाः सुरप्रसादाप्त जनप्रशंसाः । विचक्षणश्रणिशिरोवतंसाः कृतोल्लसन्मुक्तिरमारिरसाः ॥१४॥--. यैश्चके प्रथमांगस्य दीपिकार्थप्रदीपिका । ते जिनहंससूरीन्द्राः जीयासुर्गुरवो मम ॥१५॥ युग्मम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy