SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [२५ [ 265 ] अन्तः- संवत् १५७९ वर्षे माघवदि ९ सोमे। अद्येह श्रीअणहिल्लपुरवास्तव्यसश्रीकेण श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसमुद्रसूरिस्तत्पट्टे श्रीजिनहंससूरीश्वराणां श्रीभगवतीपञ्चमाङ्गवृत्तिलेखयित्वा विहारिता ॥ श्रीश्रीमालज्ञातीयआचवाडियागोत्रे मन्त्रिधणपति-पुत्रमंत्री गुणराजभार्याकन्हाईसुश्राविका-पुत्ररत्नमन्त्रि श्रीराजभुश्रावकेण पुत्ररत्नमन्त्रिलटकणमन्त्रिसहसकरण-पौत्रमन्त्रिविद्याधर-मन्त्रिलक्ष्मीधरप्रमुखपरिवारसश्रीकेण तदनु श्रीजेसलमेरौ संवत् १६०६ वर्षे श्रजिनमाणिक्यसूरीश्वररवाचि किञ्चदशोधि, श्रीसंघाध्यक्षं व्याख्यानावसरे व्याख्यायि च । . [266] अन्तः- श्रीश्रीमालकुलाम्बुजे दिनकरो धन्यो धरामण्डनं नानाचारविचारचारुचतुरो जीवादितत्त्वार्थवित सम्यग्दर्शनधारको व्रति]धरः सर्वार्थिदेवद्रुमो ___ मन्त्रीशः सुगुणैरलंकृततनुर्देवाभिधानोऽभवत् ॥१॥ तस्याभवद्गुणै रम्या स्वकुलानन्ददायिनी । गोमतिनाम्नी दयिता सती श्राद्धी शिरोमणिः ॥२॥ पुत्रस्तदीयो विलसद्विभूतिः सत्पुण्यपीयूषपवित्रमूर्तिः । तेजूपतिः शीलधरः समस्ति हर्षाभिधो हर्षकरो नराणाम् ॥३॥ इतश्च - श्रीश्रीमालकुलाम्बुजजन्मदिनपो लोकोपकारी सदा विख्यातः स्वगुणैर्विशेषधवलैः श्रीदेवराजाङ्गजः । श्रीजगड़-जगसिंहपूर्वजमहापुरत्नसंस्मारकः श्रद्धावान् हरिचन्द एष सततं जीयान्महीमण्डले ॥४॥ तत्पत्नी जिनराजधर्मनिपुणोभयपक्षशुद्धा सदा हंसीवोज्ज्वलमानसा शुभतमश्राद्धीगुणैः पूरिता । सर्वज्ञोक्तवतादिपालनविधौ संतत्परा सन्मदा रत्नाई इति नामतो विजयते भूमण्डले साम्प्रतम् ॥५॥ श्रीपूर्णिणमापक्षपयोधिचन्द्राः शीलेन संनिजितस्थूलभद्राः । सूरीश्वराः श्रीभुवनप्रभाख्या जयन्तु नित्यं जगतीतलेऽस्मिन् ॥६॥ लिखाप्य निजपुण्यार्थ भगवतीवृत्तिपुस्तकम् । हर्षेण रत्नवत्या च दत्तं स्वगुरवे मुदा ॥७॥ षट-रस-पञ्च-पृथिवीसंज्ञे [१५६६] वर्षे च श्रावणे मासि । प्रतिपद्दिवसे लिखित पुस्तकमेतच्चिरं जीयात् ॥८॥ ॥ इति प्रशस्तिः ॥ [267] अन्त:- लिखितं श्रीअणहिल्लपुरपत्तनमध्ये ॥ संवत् १६५८ वर्षे कार्तिक वदि १४ शुक्रवारे लिखितम् । तपागच्छे पं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy