________________
१८]
१८ 1
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [204 ] अन्तः- ... ... । दो सिंहा-भार्याअमरी-पुत्रदो हरषाकेन श्रीसिद्धांतकोश कारितं
पुत्र दो०... ... ... लादेपुत्रसहसकरण-उदयकरण-विजयकरणविमलसी-भार्याविमलादे-पुत्रवच्छाप्रमुखपरिवारयुतेन स्वकोशे श्रीआचाराङ्ग
वृत्तिर्लिखापयामास ॥ [205] अन्तः- श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालंकार-श्रीजिनहंससूरिविरचितायां श्रीआ
चाराङ्गप्रदीपिकायां द्वितीयश्रुतस्कंधः समाप्तः । ग्रन्थाग्रन्थम् १०२८५। . ___संवत् १८८३ रा शाके १७४८ प्रवर्त्तमाने मासोत्तममासे फाल्गुनमासे
कृष्णपक्षे द्वितीयायाम् । [206] अन्तः - सं० १६०५ वर्षे भाद्रपद वदि ५ शुक्रे । अद्येह श्रीपत्तनमध्ये श्रीश्रीमाल
ज्ञातीया सुगंधीकुटुम्बे श्रे. हांसा-भार्याशुहांसलदे पुत्र-४ श्रे. हरिचंद - श्रे० सीवा - श्रे० मेघा - श्रे० सिंधूपुत्रपौत्रसहितैः श्रे० मेघाकेन श्रीपूर्णिमापक्षे प्रधानशाखायां भ० श्री ६ भुवनप्रभसूरि-तत्पट्टे भ० श्री ६कमलप्रभसूरि-तत्पटे भ० श्री ६ पुण्यप्रभसूरीश्वराणामुपदेशेन श्रीआचाराङ्गदीपिका
श्रे० मेघाकेन स्वस्वपुण्यार्थ लिखाप्य स्वगुरुभ्यः प्रदत्ता वाच्यमाना चिरं नन्दतु ॥ [208] अन्तः- श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहससूरिविरचितायां श्री.
आचाराङ्गप्रदीपिकायां द्वितीयः श्रुतस्कन्धः समाप्तः । अन्तः- श्रीवीरशासने क्लेशनाशने जयिनि क्षितौ ।
सुधर्मस्वाम्यपत्यानि गणाः सन्ति सहस्रशः ॥१॥ गच्छः खरतरस्तेषु समस्ति स्वस्तिभाजनम् । यशोभुवनगुणजुषो गुरवो गतकल्मषाः ॥२॥ . श्रीमानुयोतनः सूरिर्वर्द्धमानः जिनेश्वरः । जिनचन्द्रोऽभयदेवो नवांगीवृत्तिकारकः ॥३॥ ग्रथितानेकसद्ग्रन्थो निग्रंथानां शिरोमणिः । दुर्लभो दुर्धियां धीमद्वल्लभो जिनवल्लभः ॥४॥ जिनदत्तो जिनचन्द्रो जिनपतिरासीज्जिनेश्वरश्चैव । सजितप्रबोध-जिनचन्द्रसुगुरु-जिनकुशल-जिनपद्माः ॥५॥ जिनलब्धिजिनचन्द्रः संघोदयकृज्जिनोदयगणेशः जिनराजसूरिगणभृत् तत्पट्टालङ्कृतिप्रवणः ॥६॥ तत्पट्टे सिद्धान्तस्वर्णपरीक्षाकषोपलप्रख्याः । श्रजिनभद्रयतीन्द्राः श्रीजिनचन्द्राश्च तत्पट्टे ॥७॥ ये द्वैधममलशीलाः प्रियगुणिनो दूरमस्तदुःशीलाः श्रीजिनसमुद्रसूरिप्रवरास्ते तदनु संजजुः ॥८॥ तत्पादपकरुहभृङ्गसन्निभास्तत्सेवनासादितशास्त्रसौरभाः । तच्छिष्यलेशा गुणिभिः समाहता गणाधिपाः श्रीजिनहंसमूरयः ॥९॥ श्रीलूणकर्णराज्ये मंत्रीश्वरकर्मसिंहसंघपतौ । श्रीमद्विक्रमनगरे गुण-मुनि-शर-चन्द्रमित(१५७३)वर्षे ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org