________________
१४]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे ___सं० १५२७ वर्षे चैत्रसुदि ७ गुरा श्रीपूर्णिमापक्षे पूज्यराजश्रीजयप्रभसूरिभिः
शिष्ययशस्तिलकमुनिसमध्यापनाय सप्तपदार्थीटीका लिलिखे परोपकृतये च । [153] अन्तः- ॥ इति श्रीजिनवर्धनसूरिविरचिता सप्तपदा टीका ॥
सर्वसंख्या ग्रं० २०४८ अक्षर ११, श्रीपत्तने लिखिता ॥ [ 155] आदिः-॥ ॐ ॥ वेदान्तविज्ञानसुनिश्चितार्थैर्योगीश्वरैयेयमजं विशुद्धम् ।
उमानुमाभ्यामधिगम्यमानं वन्दे महेशं सदनुग्रहेशम् ॥१॥ विघ्नेशादीन् नमस्कृत्य माधवाख्यसरस्वती ।
शिवादित्यकृतेष्टीकां करोति मितभाषिणीम् ॥२॥ अन्तः सौराष्ट्रदेशोऽखिलराष्ट्रवर्यः सदाकरो दक्षिणभूमिनिष्टः ।
विराजते सद्यगिरीन्द्रसानौ यत्रास्ति गोकर्णमहाचलेशः ॥१॥ तद्देशजन्मा यतिरेकदण्डो सरस्वतीमस्तकमाधवाख्यः । सोऽयं शिवादित्यकृतेरकार्षीट्टीकामिमां बालसुखप्रवृत्त्यै ॥२॥ माधवाख्ययतीन्द्रेण गोदातीरनिवासिना । कृता सप्तपदार्थ्यास्तु टीकेयं मितभाषिणी ।।३।।
इति मितभाषिणी संपूर्णा ॥ श्रीरस्तु । तुरग-क्षमतु-चन्द्रे (१६१५) वर्षे मासे च पौषकृष्णदले ।
सोमे पञ्चम्यहनि व्यलेख्येषा चिरं नन्द्यात् ।। ६ ॥ [ 156 ] अन्तः- पंडित आगन्दविजयगणिशिष्यगणिहर्षविमलपठनार्थम् । [ 157] अन्तः- संवत् १७३५ वर्षे द्वितीयज्येष्ठसुदि ६ बुधे चातुर्वेदीमोढज्ञातीयलिखितं महिता
नानासुतवृन्दावनेन लिखितम् । श्रीपाटणमध्ये ॥ [159 ] अन्तः- श्रीजिनसमुद्रसूरिविनेय वा० साधुविजयगणिना प्रतिरिय लेखिता। वाच्यमाना
चिरं जीयात् ।। [163 ] अन्तः- मुनिजसतिलकयोग्यः ।। [169] आदिः - ॥ ॐ ॥ अहं ॥
यत्पादाम्बुजभृङ्गालिच्छलादिव सुरासुराः ।
वितर्कयन्ति सौन्दर्य तं वन्दे गिरिजाप्रियम् ॥ १॥ अन्तः- इति श्रीपरमहंस परिव्राजकाचार्यश्रीमदद्वयाश्रमपूज्यपादशिष्याद्वयारण्यमुनिविरचिता तर्कदीपिकायाः संक्षेपव्याख्या समाप्ता ।।।
संवत् १५२८ वर्षे श्रावणसुदि ५ शुक्रे लिखितम् । मुनियशस्तिलकपठनार्थम् ॥ वैक्रमेऽब्देऽद्रि-पक्षेषु-भू (१५२८) संख्ये मासि कार्तिके । ग्रन्थोऽयं शुक्लपञ्चम्यां लिलिखे स मया मुदा ॥१॥ लिखित्वा प्रददे प्रीत्यै भावचन्द्रेण भावतः । श्रीतर्कदीपिकाव्याख्या यशस्तिलकसाधवे ।। २ ।। नन्दन्तु श्रीगुरवः श्रीजयप्रभसूरयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org