SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। [११ मासस्य चतुर्दशी भौमदिने । अणहिल्लपत्तनाभिधाने पनिमगच्छीयभट्टारक श्रीमहिमाप्रभसूरिणा स्वहस्तेन पठनाय लिखतैषा न्यायसिद्धान्तमञ्जरी । ग्रन्थानम् १०२५ श्रेयः ।। [111] अन्तः - वह्नि-पांडव-पयोधि-चन्द्र(१७५३)संज्ञानुवत्सरे । पौषमास्यसिते पक्षे दशम्यां मन्दवासरे ॥ १ ॥ राजन्ते सुतरां श्रीमन्महिमाप्रभु(भ)सूरयः । तच्छिष्यभावरत्नेन तर्कभाषा लिवो(पी)कृता ॥ २ ॥ [112] आदि:- ॥ ॐ ॥ श्रीसरस्वत्यै नमः ॥ बालोपि यो न्यायनये प्रवेशमल्पेन वाञ्छत्यलसः श्रुतेन । संक्षिप्तयुक्त्यन्विततर्कभाषा प्रकाश्यते तस्य कृते मयैषा ॥ १ ॥ अन्तः- इति श्रीकेशवमिश्रेण विरचिता तर्कभाषा संपूर्णा । संवत्सप्तदशसप्तत्रिंशत्तमेऽब्दे (१७३७) श्रीमंडहीबन्दिरे शुभं भूयाल्लेखक पाठकयोः । [114 ] अन्तः- महोपाध्याय १०८ श्रीराजसारजीशिष्यमहोपाध्याय श्री १०७ श्रीज्ञानधर्मजी शिग्यमुख्यः वाणारसजी राजहंसजीशिष्यमुख्यः पंडितप्रवरदेवचन्दजीशिष्य पं० मतिरत्नपठनार्थम् ॥पं० राजलाभपठनार्थम् ॥ श्रीः॥ चिरं वषतमलपठनार्थः।। [115] आदि:- ॥ ॐ ॥ श्रीतुलजायै नमः ॥ प्रणम्य जगदाराध्यं जगदानन्ददायिनम् । तर्कभाषाविवरणं विदधे माधवः सुधीः ॥१॥ अन्तः- काव्यालङ्कारदक्षो विविधबुधजनस्फूर्जदद्वैतपक्षो मीमांसाशास्त्रशिष्या(क्षा)प्रवणजनमनो मानयन् माननीयः । भूदेवाम्नायपद्मप्रकरविकशनख़्यातभानुद्विजेन्द्रो बालज्ञानाय टीकामत[त] महिमवान्नागनाथस्तनुजः ॥१॥ गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥२॥ इति श्रीमदशेषवादीन्द्रद्विपपञ्चाननश्रीप्रमानन्दान्तेवासिमाधवभट्टविरचितं तर्कभाषाविवरणं समाप्तम् ॥ [116 ] अन्तः-इति श्रीमत्रिपाठी विष्णुदासतनुजबलभद्रविरचितायां तर्कभाषाप्रकाशिका समाप्ता॥ ( अन्यदीयहस्तेन लिखितमिदम्-) पं० श्रीकल्याणकुशलगणिभिः मुक्ता श्रीसूर्यपुरकोशे ॥ [117] आदिः-॥ ॐ ॥ यत्तर्कभाषामनुभाषते स्म गोवर्द्धनस्तर्ककथासु धीरः । तेनानवद्येन सुधांशुगौरी कीर्तिर्गुरूणाममृताधिकाऽस्तु ॥१॥ विजयश्रीतनुजन्मा गोवर्द्धन इति श्रुतः । तर्कानुभाषां तनुते विविच्य गुरुनिर्मितिम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy