SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४] १. प्रशस्त्यादिसंग्रहः। [7] आदिः- श्रीजिनेन्द्राय नमः ॥ बज्रसूची प्रवक्ष्यामि शास्त्रमज्ञानमेदिनीम् । दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥ अन्तः- इति श्रीशंकाराचार्यविरचितं(ता) उपनिषद्वज्रसूची समाप्त(प्ता) ॥ [ 8 ] अन्तः- संवत् १७८१ वर्षे शरदऋतौ महामाङ्गल्यप्रदे आश्विनमासे कृष्णपक्षे एकादश्याः पुण्यतिथौ गुरुवासरे अद्येह वटपद्रवासी(सि)श्रीगौडपाठकआत्मारासुतपाठकदयारामेण लिखितं गृह्यसूत्रं पाठकदयाराम ... ... ... ... ... ... मौडेश्वराय नमः ॥ भवाणी-शङ्कराय नमः ॥ हराय नमः ॥ [9] आदिः - (पत्राङ्क३ अ)सृङमज्जामूत्रं विट्कर्णयोर्मलम् । स्ले(श्ले)ष्माश्रुभूषिकायेदा द्वादशैते मला नृणाम् ॥३४॥ अन्तः-- अग्न्याधानाभिषेकाद्याविष्टापूर्तादिके तथा । वृद्धश्राद्धं प्रकुर्वीत यात्रासु ग्रहणे तथा ॥४२॥ धर्मशास्त्रमिदं पुण्यं स्वयं भागुरिणा कृतम् । सुबोधं सर्वलोकानां स्मृतिसारसमुच्चयम् ॥४३॥ इति स्मृतिसारसमुच्चयधर्मशास्त्रं समाप्तमिति ॥ संवत्त्से (त्स)रे श्रीविक्रमादित्यराज्ये संवत् १४२३ शाके १२८३ कात्रि(ति)क सुदि१५ पूर्णमासीतिथौ चन्द्रवासरे । श्रीसुलताण पेरोजशाहेन राज्यं कृ(क्रियते । टेकटक (2) आगतम् । शुभं भवतु मांगल्यं ददा(द्या)त् । (यद्यपि अत्र स्पष्टः १२८३ शाके' इत्युल्लेखस्तथापि तत्र'१२८६ शकेन' भाव्यम् ।) [11] आदिः -ॐ नमः श्रीपुरुषोत्तमाय । प्रणम्य देवं ब्रह्माणं सुरासुरनमस्कृतम् । स्मृतेर्गौतमगीताया ग्रन्थोऽधिक्रियते मया ॥१॥ अन्त:- इत्याचार्यगुरोरानन्तीयस्य भट्टभाउलकृतौ गौतमपदार्थविवरणेऽष्टाविंशति तमोध्यायः ॥२८॥ इति तृतीयः प्रपाठकः समाप्तः ॥छ ॥ ग्रन्थाग्रन्थश्लोक २५००॥ संवत् १७६९ वर्षे पौषशुदि ७ भौमे श्रीपत्तननगरे पण्ड्या आशाधरेण लिषितम् ॥ [16] सूचनम् अत्र पुस्तकगतं नाम नास्ति समग्राणां प्रकरणानां बोधकम् , अपि तु अन्तिमप्रक रणस्यैव सूचकम्। तत्र गृहस्थापन-गृहमन्त्र-विवाहक्रम-नवआहूत-लाजाहोमइति प्रकरणान्यपि सन्ति। - प्रणम्य विष्णुमात्मानं सच्चिदानन्दमुक्तिदम् । गुरुं सर्वज्ञविश्वेशं माययाश्रितविग्रहम् ॥१॥ विश्वेश्वरसरस्वत्या क्रियते वेदमानतः । यतेः परमहंसस्य धर्माणामेष संग्रहः ॥ तत्र संन्यासाश्रमकालनिर्णयः ...। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy