________________
षष्ठं परिशष्टम्
जेसलमेरुज्ञानभण्डारशिलालेख: ॥५०॥ णमो त्थु णं समणस्स भगवओ वीरवद्धमाणजिणस्स । णमोत्थु णं अणुओगधराणं । श्रीमन्तं कमठप्रतापमथनं श्रीअश्वसेनाङ्गजं
श्रीवामातनयं प्रभावनिलयं नाम्ना निरस्तामयम् । अर्हन्तं धरणोरगेन्द्रमहितं पद्मावतीसंस्तुतं
पौनःपुन्यमई करोमि शरणं श्रीपार्श्वनाथं जिनम् ॥ १॥ स्वस्ति श्रीनृपविक्रमार्कसंवति २००७ चैत्रमासे शुक्लपक्षे एकादशीतिथौ बुधवासरे पूर्वाफल्गुनीनक्षत्रे स्थिरयोगेऽयेह श्रीजेसलमेरुमहादुर्गे खरतरगच्छालङ्कारयुगप्रधानाचार्यप्रवरश्रीजिनभद्रसूरिजैनभाण्डागारस्य जीर्णोद्धारविधानादिपुरस्सरं पुनः स्थापना विहिता। अयं च ज्ञानकोशो युगप्रधानाचार्यश्रीजिनभद्रसूरिभिः पञ्चदशविक्रमशतकचतुर्थचरणे स्थापित आसीत् । तदन्तश्च तैः प्राचीनतमानां चिरन्तनजैनजैनेतरस्थविराचार्यपुङ्गवविनिर्मितानामतिबहुमूल्यानामलभ्यदुर्लभ्यानां ग्रन्थानां सङ्ग्रहोऽकारि। नवीना अपि च सहस्रशो ग्रन्थप्रतयस्तैस्ताल-कागलादिपत्रेषु लेखिताः । लेखयित्वा चात्रत्यज्ञानकोशेऽणहिल्लपुरपत्तनादिचित्कोशेषु च स्थापिताः । अपि च जेसलमेरुदुर्गस्थस्थास्यातिमहतो ज्ञानागारस्याघावधि बहुभिर्मुनिपुङ्गवैविद्वत्प्रवरैश्यावलोकन ग्रन्थनाममूचीपत्रं पुस्तकलेखनं जीर्णोद्धारादिकं च व्यधायि । तत्रापि गतविक्रमशतकान्तः डॉ० टोड, डा० बुल्हर, डॉ० याकोबी, डॉ० भाण्डारकर, यतिजी श्रीमोतीविजयजी, श्रीहंसविजयजी महाराज, श्रीजैनश्वेताम्बर कोन्फरन्स मुम्बई, सी०डी० दलाल, श्रीजिनकृपाचन्द्रसरि, श्रीजिनहरिसागरसूरि, भारतीयविद्याभवनाधाचार्य श्रीजिनविजयजी, यतिश्रीलक्ष्मीचन्द्रजीप्रभृतिभिर्विद्वद्वरैर्ज्ञानभण्डारनिरीक्षण-पुस्तकलेखन-ग्रन्थनामसूचीविधानादि पाण्डित्यसूचकं निरमायि । तथापि नैकेनापि विद्वत्मकाण्डेनैतद्भाण्डागारजीर्णोद्धार-ग्रन्थव्यवस्थापन-लेखन-संशोधनादिकं समग्रभावेन व्यधायि । किञ्च श्रीसङ्घपुण्योदयात् श्रीजेसलमेरुदुर्गश्रीसङ्घसम्मत्या सधवीश्रेष्ठि बाफणा श्रीसांगीदासजी सुपुत्र श्रेष्ठिश्रीआयदानजी, महेता श्रेष्ठिश्रीराजमलजी सुत श्रीफत्तेसिंहजीसुश्रावकयोविज्ञप्स्या श्रीजेसलमेरुतीर्थयात्रा-प्राचीनज्ञानभण्डारजीर्णोद्धाराद्यर्थ श्रीगूर्जरदेशान्तर्गतराजनगरतः ( अहमदाबादनगरात् ) अत्युग्रेण विहारेण विहत्यात्रागतैः श्रीतपोगच्छदिवाकर न्यायाम्भोनिधि संविग्नशाखीयाद्याचार्य पञ्जाबदेशोद्धारक आचार्यश्रीविजयानंदमूरि (श्रीआत्मारामजी महाराज) शिष्याऽणहिल्लपुरपत्तनादिगतजैन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org