________________
४७० जेसलमेरुज्ञानभंडारशिलालेखः
[ षष्ठ ज्ञानभाण्डागारोद्धारक प्रवर्तक श्रीकान्तिविजयान्तेवासि लीम्बडीप्रभृतिनगरस्थप्राचीनज्ञानभण्डारोद्धारक श्रीआत्मानन्दजैनग्रन्थमालासम्पादकमुनिवर श्रीचतुरविजयजीशिष्याणुशिष्यरत्नैः समग्रजिनागमपुनःसर्वाङ्गसंशोधनेच्छुकैर्मुनिपुण्यविजयैः स्वबृहद्गुरुबन्धुपूज्यपाद श्रीमेघविजयजीमहाराजच्छत्रच्छायास्थितैः पूज्यप्रवरचारित्रचूडामणिश्रीहंसविजयजी महाराजान्तिषदतिविनीतभावपूर्ण प्रज्ञांशश्रीसम्पतविजयजी शिष्याणु अनेकग्रंथसंशोधनप्रतिलिपिविधानप्रवीण मुनिश्रीरमणीकविजयजीसंयुतैः स्वशिष्य श्रीजयभद्रविजयजीपरिवृतैरत्रत्यदुर्गस्थितप्राचीनतमजनज्ञानकोशस्य ग्रन्थालेखन-संशोधन-पृथक्करण-टिप्पविधानादिना सर्वाङ्गीणो जीर्णोद्धारो विहितः । अपि चैतद्भण्डारजीर्णोद्धारादिसमस्तकार्येषु अनेककार्यविधानकुशलो न्यायतीर्थबेलाणीश्रीफत्तेहचन्द्रो भोजककुलभूषणः पण्डितश्रीअमृ. तलालः सततसंशोधनादिलीन पण्डितश्रीनगीनदासः लेखनकलाप्रवीणो भोजकचीमनलालश्च एते चत्वारोऽपि विद्वांसः सततसहायिनोऽभूवन् । तथा राजनगरीयश्रीगूजरात विद्यासभया स्वीयद्रव्यव्ययेन प्रहिताः श्रीजितेन्द्रभाई जेटली एम. ए. न्यायाचार्या अप्यत्रत्यज्ञानकोशस्थदार्शनिकग्रंथसंशोधनादिषु सहायका आसन् । तथैवात्रत्यभण्डारजीर्णोद्धाराशुपयोग्यन्यान्यकार्येष्वनवरतश्रमी भोजककुलनंदनो लक्ष्मणदासो रसिकलालश्चापि सहायिनावभूताम् । रसवतीकारको वीरचन्द्रः ठाकोरमाधवसिंहश्चापि सोत्साहभावेन सर्वेषामानंददायिनावभूताम् ।
अपि चैतज्जीर्णोद्धाराद्यर्थ समस्ता द्रव्यादिव्यवस्था श्रीजैनश्वेताम्बरकोन्फरन्स बम्बई संस्थया विहिता। तत्रोपर्युक्तविद्वत्समूहद्रव्यव्ययव्यवस्था सर्वाऽप्यणहिल्लपुरपत्तनवास्तव्य-ज्ञानभक्तिभृत् सुश्रावकश्रेष्ठि श्रीकीलाचन्द्रात्मज श्रीकेशवलालसत्प्रेरणया पत्तनीयोदारचेतस्क-जिनप्रवचनानुरागिणा श्रेष्ठि पोपटलालसुपुत्रेण श्रीचीमनलालेनात्मीयज्ञानावरणीयादिक्लिष्टकर्मनिर्जराथै विनिर्मिता । अपरा च ग्रन्थकाष्ठपट्टिका-दवरक-वस्त्रवेष्टन मञ्जूषा-ऊर्ध्वमहामञ्जूषा (कबाट) आदि विषया ग्रन्थप्रतिबिम्बन (माइक्रोफिल्मिंगफोटोग्राफी) विषया च द्रव्यव्यवस्था विश्वाऽपि श्रीजैन श्वे. को० कार्यकरविज्ञप्त्या तत्तत्स्थानीयश्रीसधैर्विहिता । तथाहि-श्रीगोडीजीजैनश्रीसङ्घ बम्बई रू. १००००। कोटश्रीसम बम्बई रू० २००० । पूना श्रीसङ्घ २००० । कलकत्ता श्रीसङ्घ २००० । श्रेष्ठिश्रीहेमचंदभाई-भूपेन्द्र ब्रधर्स बम्बई २५०० । वडोदरा जानीसेरीश्रीसङ्घ ७५१ । वडोदराश्री आत्मारामजीजैनज्ञानमंदिर ७५१ । बहेन जसकोरबहेन झवेरी ह० हसमुखबहेन ज्ञवेरी वडोदरा ५०० । शा० छगनलाल लक्ष्मीचंद वडु ४०१। एतत्सर्वसहायकारिभ्योऽप्यत्युपयोगि साहाय्यं श्रीजेसलमेरु श्रीसङ्घचित्कोशव्यवस्थापक सङ्घमुख्य श्रेष्ठि महेताश्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org