________________
क्र. ३८७ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
१६३
इत्यभिधाय कर्तव्यः इत्युच्यते । केनेत्याकाङ्क्षिते सोमेनेति । किमर्थमिति स्वर्गायेति । कथमिति चेत्थमिति । एवमवगच्छन्तः पदार्थैरभिसम्भूतं पिण्डितं वाक्यार्थे कथमुन्मत्तवाक्यसदृशमिति वक्ष्यामः । नन्वनुपपन्नमिदं दृश्यते वनस्पतयः सत्रमासतेत्येवमादिनाऽनेनानुपपन्नेनाग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमाद्याः उपपन्नाः स्युः ।
अपि च वनस्पतयः सत्रमासतेत्येवमाद्यापि नाऽनुपपन्नाः, स्तुतयो येताः सत्रस्य, वनस्पतयोऽपि नानाचेतनाः इदं समुपासितवन्तः कि पुनर्विद्वांसो ब्राह्मणा इति, तद्यथा, लोके सन्ध्यायां मृगा अपि न चरन्ति किं पुनः, ब्राह्मणाः इति । अपि चाविगीतः सुहृदुपदेशः कथमिवाशङ्क्यतोन्मत्तबालवाक्यसदृश इति तस्माच्चोदना लक्षणो धर्म इति ॥ ॥ प्रथमस्य प्रथमः पादः समाप्तः ॥ छ ॥ श्रेयोऽस्तु ॥
(२) प्रमाणान्तर्भाव पत्र ५१- ९७ । भा. सं. । क. देवभद्र तथा यशोदेव । ले. सं. १११४ । संह श्रेष्ठ । द. श्रेष्ठ । लं. प १२॥॥४२॥
आदि- -पत्र ५१
यस्य प्रज्ञाप्रकाशः कवलयति जगच्चक्रमेवाकलङ्कः, सत्त्वार्थ वा विधातुं यदपर उदयी नासमर्थोऽकलङ्कः । तन्नत्वा स्वार्थसम्पत्सुहितमनुपमो मजुवाग् यो न दीनः, प्रत्यक्षं वाऽनुमा घे (वे ) त्यत उदितमिदं येन तुल्यो नदीनः ॥
प्रत्यक्षं चानुमानं च प्रमाणमिदमेव हि । प्रमाणसंप्लवायोगात् प्रमेयद्वयसङ्गतेः ॥ शब्दादिकं प्रमाणं हि भ्रान्तिमात्रात्तदन्यथा । प्रमाणलक्षणायोगात् प्रमाणाभं वहिः स्थितेः ॥ पत्र ६४-६५ मां
इत्यर्थिसङ्गिव्यवहार सिद्धं शाब्दं निजाथऽनुतिप्रथसि (प्रया से ) । बाह्ये तु नैवास्य परं प्रमाणं यथाकथञ्चिज्जगतामिहाssस्था ॥ प्रमाणान्तर्भावे शाब्दः । प्रमाणान्तर्भावे शाब्दप्रमाणान्तर्भावः प्रथमः परिच्छेदः ॥ छ ॥
उपमाऽपि प्रमा कैश्विदिष्यते न्यक्षबुद्धिभिः । सादृश्येन परिच्छेदः परोक्षेऽर्थे न तां विना ॥ सादृश्यस्य च वस्तुत्वं न शक्यमपबाधितुम् । भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥ उपमाऽपि हि सादृश्ये परोक्षे वित्तिरीक्ष्यते । नानुमालक्षणं तत्र प्रथमं सदृशमहात् ॥ पत्र ७१ मां
इत्यनिन्द्य विधिना निरूपितं नोपमानमनुमानतः परम् । एवमन्यदपि तेन गीयता प्रज्ञया नहि स दृश्यतेऽधिकः ॥
उपमानान्तर्भावो द्वितीयः परिच्छेदः ॥ छ ॥
प्रमाणबद्द्वविज्ञातो यत्रार्थो नान्यथाभवन् । अदृष्टं कल्पयेदन्यं साऽर्थापत्तिरुदाहृता ॥
ननु दृष्टः श्रुतो वाऽर्थ इति भाष्यकृतो वचः । तत्कथं दृष्टिमात्रेण साऽर्थापत्तिर्निरूपिता ।
अग्रे कृत्वा स नियमममुं संयमं वत्सकं तं पूता शान्तिः सुरभिरभितो लिप्सुना वत्सलोच्चैः । दुग्धा स्निग्धं मधुरमधिकं ज्ञानदुग्धं...मुग्धं, येनानूनं जिनपतिमिनं नाभिसूनुं प्रणम्य ॥१॥
पत्र ८२
या तन्त्रमन्त्रजडधीर्न विवेकभाजि तत्त्वे प्रवर्तनमुपैति न मे कथञ्चित् । अन्धस्य तस्य न जातु मतेविंशेषस्तस्य स्खलद्गतिनिवत्तेनमेतदस्तु ॥ प्रमाणान्तर्गतौ तृतीयोऽर्थापत्तिपरिच्छेदः ॥ छ ॥
प्रमाणान्तरभावोऽपि भाष्यकृत्प्रतिपादितः । अभावोऽपि प्रमाभावो नास्तीत्येतद् विनिश्वये ॥ अर्थस्यासन्निकृष्टस्य तथा चाह कुमारिलः । भाष्यकारोक्तमेवार्थमुपपत्त्योपदर्शयन् ॥ प्रमाणपंचकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ तत्र ( त्रा ) भावप्रमाणता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org