________________
१६४
पत्र ९६, ९७
श्रीजेसलमेरुदुर्गस्थ
प्रतीतिसंस्पर्शितया प्रबन्धात् ।
इत्यद्भुताभावनिराक्रियेयं विपरीत्य फल्गु स्फुरितं परेषां सदर्थनीतेरयमेव सारः ॥ छ ॥ प्रमाणान्तर्भावः समाप्तः ॥ छ ॥
श्रीदेवानन्दगच्छान्वयशिशिरकरे काशिभव्यारविन्दे, सूरावुद्योतनाख्ये प्रतपति तपने वादिकुमुदा ( कुन्दा) वलीनाम् । हारीज्ये सानुभावा समभवदमला साधुकूलवाणी, वन्या विद्यारविन्दस्थितचरणयुगा सद्यशोवर्द्धनाख्या ॥१॥ तत्पुत्रौ साधुशिष्य गुरुपरिचरणप्राप्तबुद्धी विबोद्धुं ज्येष्ठोऽसौ देवभद्रोऽपरलघुकवयाः सद्यशोदेवनामा | एनामुन्नाम्यमानां कतिपयरचनां बौद्धमीमांसकानां व्यालेखिष्टां विशिष्टां निजगुरुपदवीमीप्समानौ प्रतीताम् ॥२॥६॥ सं. ११९४ भाद्रपदे ॥ छ ॥
[ क्र. ३८८
प्रकीर्णकपत्रे श्लोकत्रयमधिकम् -
पादाः पापावसादा विदलितदुरिताः सन्तु सन्तानवृद्धि, कर्त्तारः कीर्त्तिवल्लीवलयपरिपुषः सद्यशोवर्द्धनानाम् । येषां पुण्यप्रसादैरुपचितमतयो मादृशा मन्दमेधा, अप्येते सम्भवन्ति त्वरितकवियशोदेवलक्ष्मीभृतस्ते ॥३॥ बुद्धिर्बोधे विशुद्धा विनयिनि विहित.... .. आदेयं कर्मकान्तं कविसदसि लसत्साधुवादं सदैव । वाणी व्यापारसिद्धिः समधिकगुणिना साधुसन्तानवृद्धिः, .. ... जगति गुरुः सद्यशोवर्द्धनानाम् ॥४॥ पूत्तिः सर्वमनोरथस्य लसिता धूर्तिर्महाव्यापदां, गूर्त्तिगौरवकारिणी गुणगणे जूतिदीनवे । तूर्ति. चूतिर्द्विषत् सन्ततेर्मूत्तिः संस्मृतिमीयुषी हि भवतामस्मासु लक्ष्मीपुषाम् ॥५॥
क्रमाङ्क ३८८
(१) इष्टसिद्धि वृत्ति सह अपूर्ण पत्र ८९ । भा. सं. । क. परमहंस विमुक्तात्माचार्य स्वोपज्ञ । आदि-ॐ स्वस्ति ॥ ॐ नमो भगवते वासुदेवाय ॥
याऽनुभूतिरजाऽमेयाऽनन्ताऽऽत्मानन्दविग्रहा । महदादिजगन्मायाचित्रभित्तिं नमामि ताम् ॥ इष्टानिष्टाप्तिहानीच्छोस्तत्सिद्धिर्यदृशा श्रुतेः । तं मां नत्वेष्टसिद्ध्यर्थे विवृणोम्यात्मसदृशे ॥
येति स्वतः प्रसिद्धतां द्योतयत्यनुभूतेः, अनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्गात् । न च स्वतः प्रसिद्धस्य प्रागभावादयस्स्वतोऽन्यतो वाऽभिव्यत्त्यतोजा । अतो स्थानान्येऽपि भावविकाशः जन्मादित्वात्तेषाम् । चेत्यानां च न चिद्धर्मत्वं रूपादिवत् । अतोऽमेया नास्यामेयो धर्मोऽप्यस्तीत्यर्थः । अतोऽनन्ताः, तस्यापि मेयत्वे तद्धर्मत्वादमेयत्वेप्यनन्यत्वान्न तद्वत्ता, चितः कालतस्तावदानन्त्यं सिद्धं जन्माभावात् । अत एव देशतोऽधस्ततोऽपि अन्यथा घटादिवज्जन्मप्रसङ्गात् । नह्यजं विभाग्यस्ति । नाणूनां चाजत्वम् । रूपादिमत्त्वाद् घटादिवत् । न चानंशत्वं समस्तदिक्सम्बन्धात् ।
Jain Education International
मध्ये -
ब्रह्मेति सिद्धं कर्मोपासनादिवाक्यानां चाविद्यावत् कल्पितेष्टानिष्टप्राप्तिपरिहारोपायज्ञापकानामविद्यावत् छायामेव प्रत्यक्षादीनामिवाबोधाबोधात् स्वप्नवत् छायामिव प्रामाण्यमिति । न वेदान्तवेद्यवस्तुविरुद्धरूपवस्तु संस्यतेत्यात्मैव सम्यक्प्रमाणवस्तु नान्यत् किञ्चिदिति स्थितम् ॥ छ ॥ श्रीमत्परमहंसपरिव्राजकाव्ययात्मपूज्यपादशिष्यविमुक्तात्माचार्यस्य कृताविष्टसिद्धौ प्रथमोऽध्यायस्समाप्तः ॥ छ ॥ छ ॥
(२) भगवद्गीता भाष्य सह पत्र १३० । भा. सं. भा. क. शंकरस्वामी । ले. सं. अनु. १२ मी शताब्दी अंत । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. २४॥४२ । । पत्र १२९ - १३० मां शोभन छे ।
For Private & Personal Use Only
www.jainelibrary.org