________________
ક
श्रीजेसलमेरुदुर्गस्थ
तस्याः साऊ - रूयडे नाम पुत्र्यौ श्रेयोधात्र्यौ [......]गुणानाम् । धर्मग्रंथाधीतिमार्गाध्वनीने प्रज्ञापाने श्राद्धसद्धर्म्मलीने ॥२३॥
वर्षती वसुसंचयं बहु चतुर्वर्णेऽत्र संघे सती भूयस्तारकुटुंबडंबरवती पीयूषनिर्मातगुः ।
सौम्याऽतीव च कौमुदी कुमुदिनी प्राणेशमूर्तेः प्रतिराजूर्नाम रमैकधामविमलेत्यस्य द्वितीया प्रिया ॥ २४ ॥ विश्वव्याप्तिकृतो यशोव्यवहृतैः कामं मिथःसंगताः षट् पुत्रा गुणधाभिधो भुवनकोऽसौ हेमचंद्रस्तथा । संत्यस्या महिपाल - रत्न - महनाख्याः षट् पदार्था यथा तिस्रः पुत्रितमाश्च धांध्यथ परा नोतूस्तथा तील्हिका ॥ २५ ॥ एकच्छत्र नृपत्वं जगति विदधतः श्राद्धधर्मक्षितदोरौचित्येन प्रयोगेऽभिमतसकलसत्कर्मनिर्माणशूराः । षट् पुत्रास्ते पवित्राः सुभृशमबिभरुर्मूर्त्तषाड्गुण्यलक्ष्मीमेताः पुत्र्यस्तु तिस्रोऽप्रतिहतमहसो मूर्तशक्तित्रयाभाम् ॥ २६ ॥ अर्कस्यापि करासहेव वसनैः सर्वागमंगात्रता नीरंगीस्थगितानना वितरणे कंडूलहस्तद्वया । आघाटः कुलयोषितां विमलचंद्रस्य प्रिया प्रेयसी षोढावश्यककृत्यकृद् विमलमत्याख्या विजेजीयते ॥२७॥ मन्ये ज्ञापयितुं जने गुणधनश्रीलक्षनाथं निजं या दीप्रं बिभृते सदा हृदि गृहे सम्यक्त्व दीपाधिपम् । शंकेऽन्तर्वसतः सदा जिनगुरू कांतं च दष्ट्वांतिके लज्जालुर्मितभाषिणी विनयभाग् योत्तिष्ठते श्रेयसे ॥ २८ ॥ एतस्याः स्तः क्षेमसिंहना मोद्दामश्चाहडनामकश्च पुत्रौ । विधिधर्म महामहीभृतः श्रीकरणिव्ययकरणिश्रियं श्रयतौ ॥ २९ ॥
तत्र च-
ज्येष्ठो वैकिलब्धिमानिव समं स्वांते गुरूणां वसेद् ज्ञात्वाऽस्मादिव हेतुतो गुरुजनच्छंदोऽनुवर्तेत सः । हस्तालं मसौ ददाति पततो दानस्य पंके कलौ प्रत्यष्टान्निजधर्ममत्र च जिन धर्म प्रतिष्ठाप्य सः ||३०|| पाणौकृत्य द्वितीयः सुखयति पुरुषद्वेषिणीं दानलक्ष्मी साधूनां स्वांतसारं हरति स लभते साधुवादं बतोच्चैः । दष्टृणां दृक्षु वर्षत्यमृतमति सदा न च्छिनत्येव तृष्णां नैकोऽप्युद्यद्गुणौघैर्जगति विजयते कीर्त्तिभिः सैक एव ॥ ३१॥ भांति स्वर्णविभूषणाः सुवसना रूप्याधिपा भोपला देदी नाम च लोहिनी त्रिभुवनी चास्याश्चतस्रः सुताः । मूर्त्ताः किं प्रहिता निजाश्चतसृभिर्दिग्देवताभिः श्रियस्तुष्टाभिर्विमलस्य कीर्तिकुसुमैरभ्यर्चनेनान्वहं ॥३२॥
इतश्व
[ क्र. ३४०
श्रीमान् सूरिजिनेश्वरोऽजनि कुले चांद्रेऽतिसांद्रे श्रिया यः श्रीदुर्लभभूपतेरधिसभं श्रीपत्तनेऽस्थापयत् । लुप्त चैत्यनिवासिभिर्गृहिगृहे वासं मुनीनां भृशं तान् न्यत्कृत्य कृती प्रतीतिसहितैः सिद्धान्तपत्राक्षरैः ॥३३॥ जज्ञेऽथ जिनचंद्रसूरिरिह यः संवेगशास्त्रामृतैरात्मारामगणं नृणामसिचत श्रेयः फलप्राप्तये । पट्टेऽस्याभयदेव आविरभवत् श्रीसूरिचक्रेश्वरो यश्चक्रेऽङ्गनिधीन् नव स्फुटतमार्थान् पुण्यवृत्तिश्रिया ॥ ३४॥ तत्पट्टे जिनवल्लभः प्रभुरुदैच्छ्रीमान युगाग्रेसरः सम्यग्ज्ञानचरित्रदर्शनदलैः कि केवलैर्निर्मितः ।
जे श्रीजिनदत्तसूरिरथ तत्पट्टाचले ययशोढक्कानां निनदः प्रबोधयति दुर्मोहेन सुप्तान् जनान् ॥३५॥ आसीच्छ्रीजिनचंद्रसूरिरथ तत्पट्टोदयाद्रौ रविर्यो रूपेण समाधिनाऽनवधिनाऽप्युच्चैर्विजिग्ये स्मरम् । सूरींद्रोऽजनि तत्पदे जिनपतिर्यस्योच्छलन् दुर्द्धरो गीष्पूरोऽस्खलि वादिभिर्नृपसमे स्राग् मौनमुद्राविथेः ॥ ३६॥ गुरुगुरुप्रवरोऽथ जिनेश्वरः समनुशास्ति जिनेश्वरशासनम् ।
कृतयुगं त्ववतीर्णमिहानुजं कलिकृतं प्रतिबोधयितुं कलिम् ॥३७॥
वृत्तोतुं गमिहोत्तमाङ्गमभवच्छत्रं यदस्या मुखं पूर्णेन्दुप्रतिमं च नर्ममुकुरः प्रेते प्रलंबे श्रुती । सौवर्णोऽज्वलनालकेलिकमलौ रक्तौ करौ सद्भुजौ न्यूढोरः कृशमध्यपीवरकटीयुक्तासनं चूडिकम् ॥३८॥ ऊरू क्रीडास्थले चांगुलिनखघुटि कभ्राजिता वय्यजंघौ
पादौ केल्यौ च शाखा किशलफलकलौ पादपौ सुप्रकांडौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org