SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ क. ४०] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र पदानी दुर्गतानां समदगदगणैर्वाधितानां च नृणां हस्तालंबायमानो हृदयमपि महीभृत्ततेरावसंश्च । भईद्धिब प्रतिष्टाप्रथिमसुपृथुला पाथमी बिभ्रदुच्चः श्रीमानकेशवंशः क्षितितलमखिलं लीलया पोपवीति ॥५॥ कीर्तिश्चैत्यप्रसररमयोद्योतिता कुंदु...वः स्फारस्फूर्जत्तमगुणगणविश्वविश्वे प्रसिद्धः । मांगल्यश्रीपरिचयचणो विश्वदृक्पीयमानः पार्थः साधुप्रवर इह च श्रीध्वजायां बभूव ॥६॥ चत्वारस्तस्य पुत्रा अजनिषततरां तत्र चाद्यः श्रियाख्यः श्रेयःसद्मा प्रणिद्यस्मरपरिचरणो मानदेवः शिवार्थी । नामान्वर्थ दधानः कलधर इतरः सर्वसामान्यलक्ष्मीरन्यौ मान्यौ वदान्यौ त्रिजगति बहदेवो यशोवर्द्धनश्च ॥७॥ व्यद्योतंततमा त्रयोऽत्र धनदेवो राजदेवस्तथा नींबाकोऽपि च मानदेवतनयास्तेजोजिताग्नित्रयाः । माहात्म्यात् त्रितया इवादिपुरुषाः पावित्र्यतः किं त्रये वेदा ये बिभरांबभूवुरखिलां लोकत्रयीं कीर्तिभिः॥८॥ पुण्यापुण्यविवेचनकचतुरं विश्वोपकारोत्तरं क्रीडावेश्म वसुव्रजस्य विबुधावन्यध्वनीनं सदा । सूर्येन्दुद्वितयं यथा कुलधरस्याऽऽसीत्तनूजद्वयं साधुदेवधरो[......]स्मिल्लोहदेवस्तथा ॥९॥ तुग याशोवर्धनः श्रीजिनपतिसुगुरुजज्ञिवान् जैनचंद्रे पट्टेऽनते कृताभ्युन्नतिरपि लघुकः पूर्ववातप्रतापात् । सर्वस्वद्वयां(?) प्रसृत्य क्षितितलमतनो वाक्सुधावृष्टिसृष्ट्या श्रेयोंकूरोद्भिदाकृत्प्रमदपरवशं पुष्करावर्त्तवद् यः ॥१०॥ शश्वत्सद्गुरुवपार्वणसुधाभीशूच्छलद्देशनाज्योत्स्नापानविधौ चकोरचतुरो दासानुदासोऽर्हताम् । नाव्यप्रेक्षणकक्षणेऽतिरसिकाक्षो बाहुदेवायनिः संजज्ञे जयदेवसाधुरमलार्थोत्पादनासत्कविः ॥११॥ लक्ष्मी म्नाऽस्य धुर्या समजनि दयिता रूपलावण्यलक्ष्म्या लक्ष्म्या मानं लुनाना प्रगुणगुणखनिः शीलभूषाधिर सर्वागीणं प्रवीणं परिदधतितमा या तथाऽभात् त्रिलोकीचूडामण्याऽपि मुक्त्या झगिति निजसखीत्वे यथोत्कंठ्यते स्म ॥१२॥ बलेन धर्मस्य चतुर्भिदः क्षिपत्तमा चतुदुर्गतिनो मुखे रजः । याऽनंतरायं विचरेच्छिवाध्वनि प्रिया द्वितीयाऽस्य च साऽस्ति लक्षिका ॥१३॥ मदनापमानावहरूपधेयौ वरदेव-धोंधीतिसुनामधेयौ ।। जयदेव-लक्ष्म्योः शुभभागधेयौ तनयावभूतां रमयाऽभिधेयौ ॥१४॥ तत्राऽऽद्योऽजनि दीर्घदर्शितिलकः प्राज्ञः सभावर्जकः प्रष्टव्यः समुपस्थितेऽतिविषमे कार्ये गुरुर्वाग्मिनाम् । उद्यत्प्रातिभवैभवश्च समवातीणों विदेशे महीपृष्ठे द्योतयितुं ध्रव सुरगुरुः सौवं मतेवैभवम् ॥१५॥ श्रीजाबालिपुरे च वीरभवने श्रीपार्श्वतीथेशितुः सौवं पुण्यमहो नु देवगृहकं नैर्मल्यशाल्युन्नतम् । यः प्राचीकरदुद्ध्वजं हिमवता कूटं तनूजं निजं स्वर्णद्याऽऽत्मजया सह प्रहितमद्वार्दोपचारेः कृते(१) ॥१६॥ संतुष्टोदयसिंहराटप्रहितया नांदीनिनादस्पृशा श्रीकर्याऽलमकारि धींध इतरः स्थास्नुः स्व एवौकसि । श्रीदेव्या स्वयमेतया कुलकलाद्रव्यर्जुतासत्यतासाधुत्वप्रियवादितादिकगुणैराकृष्टयेवोच्चकैः ॥१७॥ आद्याऽभूद् वरदेवसाध्वधिपतेः प्राणेश्वरी चाहिनी शालिन्यद्रुवनीगुणोल्वणमणीखानी जनानंदिनी । अम्लाना शुभसौरभां विकसितां श्रीशीलमालां सदा बिभ्राणा हृदये भृशं दश दिशो या मोदयांचक्रुषी ॥१८॥ तस्याश्च पुण्यजलधेस्तनयस्त्रिलोक्या आबादने किल गृहीतसुचिह्नपट्टः । पद्मापदं विमलचंद्र इहास्ति कामायुष्टोमयज्वनृपतिर्वसतिः कलानाम् ॥१९॥ नाचित्रीयत कस्य यः प्रणयिनां दारिद्रयचूडोत्खनौ निष्णातो व्यवहारिधार्मिकजने धुर्यासनं प्राप्नुवन् । नित्याराधनयाऽहंतः सुरतरोः संपूर्यमाणेप्सितस्तिष्ठन् सद्गुरुशासनस्य विधये चोत्पाटितैकांहिणा ॥२०॥ श्रीप्रहादनपत्तने जिनपति शांति प्रतिष्ठापयाञ्चक्रे सूरिजिनेश्वरैस्तदनु यः संस्थापयामासिवान् । प्रासादे प्रवरे सुशर्मनगरे मन्ये प्रतिष्ठां जने स्वं प्रापथ्य ततः सुशर्मनगरे संस्थापयिष्यन् शिवे ॥२१॥ अंभोधी विमलः स्थलेऽपि विमलो द्वेधा धरित्रीमृतामप्यतविमलस्तथैव विमलो प्रामे पुरे नीवृति । यद्वोच्चैविमलैकमय्यजनि यत्कीर्त्या त्रिलोकी ततः "सर्व विष्णुमयं जगत्" स्मृतिरिय मिध्येव जोऽवनौ ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy