________________
श्रीजेसलमेरुदुर्गस्थ
[क. ३४०श्रीचांद्रे विपुले कुलेऽतिविमले श्रीवर्धमानाभिधाऽऽचार्येन्द्रस्य जिनेश्वरोऽन्तिषदभूत् सूरिजिानापतिः । श्रीमद्दुर्लभसम्मुखं खरतरप्रख्यातिमुद्योत्य यः साधून साधुविहारिणो व्यरचयच्छ्रीगूर्जरत्रावनी ॥१॥ संवेगरंगशालां सुधाप्रपां त्वकृत शिवपथिकहेतोः। योऽन्तःसिद्धिपथ तत्पदे स जिनचंद्रसूरिरुदैत् ॥२॥ तत्पट्टेऽभयदेवसूरिरभवद् यः पार्श्वकल्पद्रुमं सच्छायं श्रितदत्तवांछितफलं श्रीस्तंभनेऽरोपयत् । जंतूनां हितहेतवेऽत्र सुघटा अर्थः सदोघद्रस: संपूर्णाश्च नवांगवृत्तिसरसीः श्रेयोर्थ्यसोसूश्यत ॥३॥ तच्छिष्यो जिनवल्लभो गुरुरभाच्चारित्रपावित्र्यतः सारोद्धारसमुच्चयो नु निखिलश्रीतीर्थसार्थस्य यः । सिद्धाकर्षणमंत्रको न्वखिलसद्विद्याभिरालिंगनात् कीर्त्या सर्वगया प्रसाधितनभोयानाम्यविद्यो ध्रुवम् ॥४॥ तत्पट्टांबरसूरडंबरधरः कृष्णातिदैवतैः सेव्यः श्रीजिनदत्तसूरिरबिभः प्राग्यां युगाग्रीयताम् । केनाप्यस्खलितः प्रतापगरुडो यस्य त्रिलोक्यां स्फुरस्त्रोटंत्रोटमपास्यते श्रितवतां विघ्नाहिपाशान् क्षणात् ॥५॥ तत्पट्टाचलचूलिकांचलमलंचक्रेऽष्टवर्षोऽपि स श्रीसांद्रो जिनचंद्रसूरिसुगुरुः कंठीरवाभोपमः ।। यं लोकोत्तररूपसंपदमपेक्ष्य स्वं पुलिदोपमं मन्वानो नु दधौ स्मरस्तदुचितं चापं शरान् पंच च ॥६॥ आरुह्य क्षितिभृत्समाचतुरिकां निर्जित्य दुर्वादिनस्तेजोऽग्नौ ज्वलिते लसत्यनुदिशं नादे यशोदुंदुभेः । पाणौकृत्य जयश्रियो गुरुमहर्यः शारदां मातरं पृथ्वी चोन्मुदितां व्यधाजिनपतिः सूरिः स जज्ञे ततः॥७॥ प्रासादोत्तमतुंगशृंगसुभगं पर्यष्करोत् तत्पदं श्रीमान् सूरिजिनेश्वरोऽत्रभगवान् गांगेयकुंभप्रभः । माधुर्यातिशयश्रिया निरुपमा यद्वाचमन्वहतो नूनं साऽपि सिता सुधा च लवणं वारीव चोत्तारणाम् ॥८॥ यो रूपातिशयाद् विदूषकमिवानगं हसत्यंजसा सौम्यत्वान्नु ददाति लक्ष्ममिषतः पत्रावलंबं विधौ । नानासिद्धिरमाद्भुतात् करकजाजित्वैकलक्ष्म्याश्रितं पद्मं चात्ततृणाननं वितनुते मन्ये मृणालच्छलात् ॥९॥
सूरिजिनरत्न इह बुद्धिसागरसुधीरमरकीर्तिः कविः पूर्णकलशो बुधः ।
ज्ञौ प्रबोधेदुगणिलक्ष्मितिल को प्रमोदादिमूर्त्यादयो यद्विनेयोत्तमाः ॥१०॥ स्वस्य गुरोरादेशात् सकर्णकर्णोत्सवं विवृतिमेताम् । स्वमतिविभवानुसारान्मुनिर्व्यधादभयतिलकगणिः ॥११॥ आम्नाती सर्वविद्यास्वविकलकविताकेलिकेलीनिवासः कीर्त्याऽब्धेः पारदृश्वा त्रिभुवनजनतोपक्रियास्वात्तदीक्षः । निःशेषग्रंथसाथै मम गुरुरिह तु द्वयाश्रयेऽतिप्रकामं टीकामेतां...लक्ष्मीतिलककविरविः शोधयामास सम्यक्॥१२॥ अय्ये द्वादशभिस्त्रयोदशशते १३१२ श्रीविक्रमाब्देष्वियं श्रीप्रहादनपत्तने शुभदिने दीपोत्सवेऽपूर्यत । मेधामांद्यमदात् कथंचिदिह यच्चायुक्तमुक्तं मया शोध्यं स्वल्पमतौ प्रसद्य मयि तन्निर्मत्सर, धिरैः ॥१३॥ सप्तदश सहस्राणि श्लोकाः पंच शतानि च। चतुःसप्ततिरप्यस्या वृत्तानं च निश्चितम् ॥१४॥ प्रक्रीडत्परिमाद्यदगिसुभगा श्रीभूर्भुवःस्वस्त्रयी सर्वेषां परमेष्ठिनां सितयशोभिः श्वेतिताः सर्वतः । यावद्दीपमहोत्सवं प्रबिभृते तेषां प्रतापज्वलद्दीपस्तावदियं करोतु विवृतिः प्राज्यं सुराज्य भुवि ॥१५॥ तृतीयखंडग्रंथाग्रं ८८५८ सकलग्रंथग्रंथाग्रं १७५७४ ॥छ।। शुभं भवतु लेखकपाठकयोः ॥छ।मंगलं महाश्री ॥७॥ विस्फूर्जत्क्षीरवारांनिधिविविधलसल्लोलकल्लोललीलालुंटाकोद्दामदेहातिततिललितोत्संगसंगेन रंगत् । यस्यांकस्थः शशांको जनयति जनताचक्षुषां सौधवर्ष हर्षोत्कर्ष जनानां स जिनपरिवृढश्चन्द्रचिह्नः प्रतन्यात् ॥१॥ प्रद्विष्टानां स्वमुपरितनं जानतां सप्तलोक्यां मन्ये वकप्रहतिविधये वक्रवक्राश्चपेटाः । एषां केषामपि नतिमतां पृष्टहस्तायमाना नृणां लक्ष्मी प्रददतु फणा: सप्त पार्वाधिनेतु: ॥२॥ आरक्तोत्पलहेमकंदलमहःसर्वस्वसर्वकषं यस्यांग जनुरुत्सवेषु पयसां किर्मीरितं बिदुभिः ।। रक्ताशोकतरोनवीनजलभृत्पाथःकणोत्कषिणो लक्ष्मीमाबिभरांबभूव स भवेत् श्रीवासुपूज्यः श्रिये ॥३॥ यन्नाम्नः स्मरतां नृणां वनमपि श्रीपत्तनोायतेऽनूपायेत च जंगलोऽपि विषयः सोऽयं गणाधीश्वरः । निःशेषाभिमतप्रपूरकतया स्वर्धनुचिंतामणिस्वर्भूणामपि चित्रमादधदलं श्रीगौतमः स्तान्मुदे ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org