SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ क्र. ३४१ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र सेवाकारी जनश्चागणितगुणगणः संजमश्रीर्वयस्या तस्माद् यस्याऽऽत्मसोधे विलसति बत योगाम्यलक्ष्मीः सुखेन ॥३९॥ युग्मम् ॥ अमुष्य सुगुरोगिरो विमलचंद्रसाधुः सुतृट सुधामधुरिमस्पृशः परिपपी मनोहत्य ये । परेचवि कथाक्षणेऽहनि रवित्विषा तापितश्चकोर इव चंद्रिकां शरदि पूर्णिमाया निशि ॥४०॥ तथाहि निबिडतिमिरपूणे दुःषमाकालदर्श जिनसुसमयदीपो वस्तुसार्थावभासी । इह न तदवबोधः शब्दसाहित्यविद्यासु तद्रतवहस्थोद्वोधनामंतरेण ॥४१॥ साहित्योद्यल्लक्षणोद्वोधरूपा चैषा हैमद्वयाश्रयग्रंथवृत्तिः । भो भो भव्या नव्यसृष्टेरमुष्याः श्रेयः श्रेयोऽकारणं लेखनं तत् ॥ ४२ ॥ युग्मम् ॥ स्वादुं कृत्वेति पीत्वा गुरुवचनसुधां हर्षनृत्यन्मनोब्धिः साधूद्धो वारदेविर्धनमुपललवायापि नो मन्यमानः । पत्रेषु श्रीपवित्रेवतुललिपिकृताऽस्याः प्रती अप्रती द्वे वृत्तेः श्रेयस्कृतेऽलीलिखदमृतकरेऽङ्कच्छलान्नाम च स्वम् ॥४३॥ अर्धगे वासवत्या सहभुविलसतः शब्दविद्याधिराश्या साहित्यक्षोणिनेतुर्वशितदिश इदं पुस्तकानां चतुष्कम् । पुष्णात्याशाचतुष्के न्यसितुमुरुयशःस्तंभसंरभभंगी नृत्तस्तंभप्रभां चाधिकलयति चतुर्वर्णचक्षुर्नटानाम् ॥४४।। चतुर्गतिचतुर्वाद्धस्तरीतुं तरणिश्रियः। गुरवे लेखयित्वाऽसौ चतुरः पुस्तकानदात् ॥४५॥ कोडाक्रीडेऽन्तरिक्षे विकसितकुसुमे तारकस्तारतारैः स्वर्णद्या केलिनद्या रुचिरपरिसरे ज्योत्स्नया पट्टदेव्या । राजा नु क्रीडमानो विविध विलसितैर्यावदुत्कंठयेन् नृनेते श्रीपुस्तकाः स्वश्रवणमनुबुधास्तावदुत्कंठयतु ॥४६॥ प्रातः प्रातर्निवेश्य त्रिभुवनजननीं भारती चित्तपट्टे भक्तिक्षीरः प्रधाव्य क्रमकमलयुगं सन्नमस्यन्नमुष्याः। दासः पार्श्वस्य जैनेश्वरचलनकजासेवने षट्पदश्रीरेतां सोसूयते स्माभयतिलकगणिः सुप्रशस्तां प्रशस्तिम् ॥४७॥ पश्चाल्लिखिता __संवत् प्रहर्तुरसेंदु१६६९प्रमिते आश्विनमासि सकलतार्किकचक्रचूडामणिश्रीसाधुकीलुपाध्यायानां विनेयवरेण्यपंडितविमलतिलकगणिशाब्दिकविद्यासाक्षात्कृतगोनर्दीयोपमानवाचनाचायवय्यश्रीसाधुसुंदरगणीनां शिष्येण पं. विमलकीर्तिमुनिना प्रतिरियमस्माद् भांडागारपुस्तकाल्लिखिता पठिता च । पं. विजयकीर्तिसहितानाम् तेषां श्रीविमलकीतानां शिष्य पं. विमलचंद्रगणिः। तच्छिष्यो वाचकश्रीविजयहर्षगणिविजयमानस्तस्य शिष्य उपाध्यायश्रीधर्मवर्धनगणिभिः शिष्यजयसुंदर-कीर्तिसुंदराभ्यो सहितैः शोधिता विकीर्णपत्राणामनुक्रमांकीकरणात् । सं. १७४५श्रावण सुदि १३ दिने जेसलमेरमध्ये ॥ क्रमाङ्क ३४१ नैषधचरितमहाकाव्य (शशांकसंकीर्तन महाकाव्य) पत्र ३१७ । भा. सं.। क. श्रीहर्षकवि । ले. सं. १३७८ । संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. १५॥४२॥ अन्त श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । द्वाविंशो नवसाहसाङ्कहसाचरिते चम्पूकृतोऽयं गतः, काव्ये तस्य कृतौ नलीयचरिते सगों निसोज्ज्वलः ॥१४॥ शशाङ्कसङ्कीर्तनं नाम ॥छ॥ सम्वत् १३७८ श्रीश्रीमालकुलोत्तंसेन श्रीजिनशासनप्रभावनाकरणप्रवीणेन सा. देदापुत्र रत्नेन सा० आनासुश्रावकेण सत्पुत्र उदारचरित्र सा राजदेव सा• छजल सा जयतसिंह सा. अश्वरान प्रमुखपरिवारपरिसतेन युगप्रवरागमश्रीजिनकुशलसूरिसुगुरूपदेशेन श्रीनैषधसूत्रपुस्तिका मूल्येन गृहीता ॥७॥ ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy