SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ क. ३२० ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र सूर्याचन्द्रमसाविति। "खद्योतपोतको यत्र सूर्याचन्द्रमसावपी"ति पाठे प्राकरणिकानुवादेनाप्राकरणिकस्य स्वगुणोपसंक्रमणद्वारेण विधेयता न भवेदित्यनुवाद्ययोः सूर्याचन्द्रमसोरादावुपादानमिति। एष चार्थों रूपके कल्पलतायामविमृष्टविधेयांशवाक्यदोषे कल्पपल्लवे च वितत्य वक्ष्यते । अन्त - अनुद्भटमतमिति । उद्भटो ह्यलङ्कारान्तरप्रतिभोत्पत्तिहेतुमेव श्लेषं प्रतिजानीते । तेन “येन ध्वस्तमनोभवेने"त्यत्रापि तुल्ययोगिताप्रतिभया सङ्कर एव स्यादिति श्लेषस्य निर्विषयत्वापत्तिस्तदवस्थवेति । जयतीति । सर्वोत्कर्षण वर्तते ॥छ॥ इति कल्पपल्लवशेषे कल्पलताविवेकेऽर्थालङ्कारनिर्णयो नाम चतुर्थः परिच्छेदः समाप्तः ॥छ॥ इति समाप्तः कल्पलताविवेकाऽभिधानः कल्पपल्लवशेषः ॥छ।।छ।। कल्पपल्लवमात्रेण न ये कल्पलतां विदुः । कल्पपल्लवशेषोऽयं निर्मितस्तद्विदेऽपरः ॥छ॥१॥छ।। अपर इति । एकस्मिन् विवरणे कृतेऽपरविवरणकरणं श्रोतणामबोधहेतुतया श्रेयस एवेत्यर्थः ॥छ॥ पल्लवकलशविराजिनि कल्पलताविबुधमन्दिरे रचितः । शेषध्वजो विजयतां छेदपरुर्ध्वनिपताकोऽयम् ॥छ।। सम्वत् १२०५ श्रावण शुदि १४ शनौ ॥छ।। मङ्गलं महाश्रीः ॥छ।। ___ क्रमाङ्क ३१८ काव्यमीमांसा (कविरहस्य) पत्र ९०। भा. सं. । क. राजशेखर । ले. सं. १२१६ । संह. अतिजीर्ण । द. श्रेष्ठ । लं. प. ११॥४२॥ अन्त इह सिद्धो महाकविः ॥छ॥ इति श्रीराजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे कालविभागो नाम समीक्षा अष्टादशोऽध्यायः ॥छ।। समाप्त चेदं कविरहस्य प्रथममधिकरणमष्टादशोऽध्यायः ॥छ॥ शुभमस्तु ।। लेखकपाठकयोः ॥छ।। मंगलं महाश्री ॥छ॥छ।। संवत् १२१६ फाल्गुन बदि ९ सोमदिने ॥छ॥छ॥ क्रमाङ्क ३१९ काव्यादर्श (काव्यप्रकाशसंकेत) सप्तम उल्लास पर्यन्त पत्र २०७ । भा. सं.। क. सोमेश्वर भट्ट । ले. सं. अनु. १४ मी शताब्दी उत्तरार्द्ध । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ११॥४१॥ आदि- स्वस्ति ॥ पदार्थकुमुदवातसमुन्मीलनचन्द्रिकाम् । वन्दे वाचं परिस्पन्दजगदानन्ददायिनीम् ॥ समुचितेति यत् किल प्रस्तुतं वस्तु काव्यालङ्करणं तदधिदैवतरूपा च वक्ष्यमाणरामणीयकहृदयहारिणी वाणी। अनन्यपरतन्त्रामिति । कवेरपेक्षयाऽन्यशब्दनिर्देशः । येषां ताण्डवमाधत्ते चित्ताध्वनि रसध्वनिः । त एवास्य सुवर्णस्य परीक्षाकषपट्टकाः ॥ इति भट्टश्रीसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसङ्केते सप्तम उल्लासः ॥छ॥ शुभं भवतु ॥छ॥ क्रमाङ्क ३२० काव्यादर्श ( काव्यप्रकाशसंकेत ) पत्र २२२ । भा. सं.। क. सोमेश्वर भट्ट। ले. सं. १२८३ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १४॥४२॥ अन्त इत्येष इति। एष मार्गोऽद्भुतं वर्त्म विदुषां ध्वनिकारादीनां नानाग्रन्थतया विभिन्नोऽप्यनेकरूपोऽपि एकरू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy