SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीजेसलमेरुदुर्गस्थ [क्र. ३२१पतया यद्भाति तत्र सङ्घटनाविसंस्थुलस्य सुखप्रतीत्यर्थमेकत्र संग्रहः सैव हेतुस्तदशादेकात्मता प्रतीतेः, तत्तप्रन्थानामत्रान्तर्भाव इति भावः। अथ च सुधियां विकासहेतुग्रन्थोऽयं कथञ्चिदपूर्णत्वादन्येन पूरितशेष इति द्विखण्डोऽप्यखण्ड इव यद्भाति तत्रापि सङ्घटनैव सन्निमित्तम् ॥ स्वीकृत्य कल्पतरुतो मरुतः परागं दृष्टेः क्षति विदधते जगतोऽपि किं तैः। भृङ्गः कृती तु परितः सुमनोमुखेभ्यः पीतं मधूदुमति येन मदं करोति ॥छ। इति भट्टश्रीसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसङ्कते दशम उल्लासः ॥छ॥ भरद्वाजकुलोत्तंसभट्टदेवकसूनुना। सोमेश्वरेण रचितः काव्यादर्शः सुमेधसा ॥१॥ सम्पूर्णश्च काव्यप्रकाशसङ्केत इति शुभम् ॥छ। मङ्गलं महाश्रीः। शुभं भवतु लेखकपाठकयोः ॥छ॥ संवत् १२८३ वर्षे आषाढ वदि १२ शनी लिखितमिति ॥छ॥ क्रमाङ्क ३२१ काव्यप्रकाशअवचूरि पत्र ५३ । भा. सं.। ले. सं. अनु. १४ मी शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १८६४२.। पत्र १ नो टूकडो ८, ११, १६, १९, २९,३३, ३७, ४१, ४३ नथी। इतीति। विदुषां ध्वनिकृत्प्रभृतीनां एष मार्गः स्वसिद्धान्तस्तत्तद्ग्रन्थमतत्वेन पृथक्पृथगवस्थितोऽप्येकरूपतया प्रतिभाति तत्र सघटनैव निमित्त, विक्षिप्तस्य सुखाऽवबोधायकत्र संग्रहण या सङघटना तद्वशादेवकात्मताप्रतिभासात्। एतेन च महामतीनां प्रसरणहेतुरेष ग्रन्थो ग्रन्थकृता [कृतः,] तेन कथमप्यसमाप्तत्वादपरेण च पूरितावशेषत्वाद् द्विखण्डोऽप्यखंडात्मतया यदवभासते तत्र सब्घटनैव साध्वी हेतुः। नहि सुघटितस्य सन्धिबन्धः कदाचिलक्ष्यत इत्यर्थशक्त्या ध्वन्यते ॥छ॥ काव्यप्रकाशसङ्केते दशम उल्लासः ॥छ॥ अन्त क्रमाङ्क ३२२ काव्यप्रकाश टिप्पणीसह पत्र १७८ । भा. सं.। क. राजानक मम्मट्ट अने अलक । ले. सं. १२१५ । संह. श्रेष्ठ । द.श्रेष्ठ। लं. प. १५॥४१॥ अन्त संपूर्णमिदं काव्यलक्षणम् । काव्यप्रकाशे अर्थालंकारनिर्णयो नाम दशम उल्लासः ॥ इत्येष मार्गो विदुषां विभिन्नोऽप्यभिन्नरूपः प्रतिभासते यत् । न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता संघटनैव हेतुः ॥छ।। समाप्तोऽयं काव्यप्रकाशः काव्यलक्षणम् । कृती राजानकमम्मटालकयोः ।। संवत् १२१५ अश्विन सुदि १४ बुघे अयेह श्रीमदणहिलपाटके समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रसादप्रौढप्रतापनिजभुजविक्रमरणांगणविनिर्जितशाकंभरिभूपाल श्रीकुमारपालदेवकल्याणविजयराज्ये पंडित लक्ष्मीधरेण पुस्तक लिखापितम् ॥ क्रमाङ्क ३२३ काव्यप्रकाश पत्र १३९ । भा. सं.। क. राजानक मम्मट अने अलक। ले. सं. १४ मी शताब्दी। सं. जीर्णप्राय। द. श्रेष्ठ । लं. प. १५॥४२।। वचमां वचमा थईने ९. जेटलां पाना नथी । अन्त विनिर्मिता संघटनैव हेतुः ॥छ॥छ॥ समाप्तोऽयं काव्यप्रकाशाभिधानोऽलंकारः ॥स्वस्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy