SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ क. ३०५ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र १२९ (२) विभक्तिविचार पत्र १६ । भा. सं. । ले. सं. अनु. १३ मी शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १२॥४२ आदि ७॥ नमोजिनाय ॥ सुप्तितं पदं । अत्र सुपिति स्यादयः सप्त विभक्तयो युज्यंते । तत्र प्रथमा, प्रथममवगता प्रथमेव तावद्विचार्यते, का पुनरियं प्रथमा ? सि औ जसिति । तस्याः पुनरेतल्लक्षणं, प्रातिपदिकार्थेत्यादि, तत्र प्रातिपदिकार्थः सत्ताऽद्वयवादीनामेतद्दर्शनं, सत्ता प्रातिपदिकार्थ इति, तथा च तेषां दर्शनं सत्ता नाम काचिदनादिनिधनरूपा नित्यस्वेन व्यवस्थिता सर्वशब्दरभिधीयत इति । तदुक्तं संबंधिभेदात्सत्तव विद्यमाना गवादिषु जातिरुच्यते । तस्यां सर्वे शब्दा व्यवस्थिताः प्राप्तक्रमविशेषेषु क्रियैवाभिधीयते । क्रमरूपस्य संहारे तत्सत्त्वमिति चोच्यते । अतस्तासां प्रातिपदिकार्थ धात्वर्थे च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्तत्वलादयः । , अन्त तथाहि - पाकोऽधिश्रयणं तुषसंप्रक्षेपेण दर्विघटनलक्षणो देवदत्तव्यापारो नासौ काष्ठादीनां भवितुमर्हति । काष्ठस्य व्यापारो ज्वलनं । स्थाल्याश्च संभवधारणं । तस्मात्प्रतिकारक क्रियाभेदो अंगीकर्तव्यः । यद्येव क्रियाभेदेन परस्परासंबंधादसत्येकवाक्यत्वे देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीति ॥ छ ॥ विभक्तिविचारः समाप्तः ॥ ० ॥ श्रीमज्जिनचंद्रसूरिशिष्येण जिनमतसाधुना पुस्तकभिदमलेखि ॥ छ ॥ क्रमाङ्क ३०४ स्याद्यतप्रक्रिया पत्र ९४ । भा. सं. 1 क. सर्वधरोपाध्याय । ले. सं १२०७ । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १२x२ | आदि ॐ ॥ सर्वज्ञाय नमः ॥ प्रणम्य शिरसा सार्धं सर्वज्ञ जगतां गुरुं । स्याद्यन्तप्रक्रियां वक्ष्ये सविशेषं समासतः ॥ रूढिशब्दाः प्रकीर्त्यते पुंसि क्लीबे स्त्रियामपि । गुणद्रव्यक्रियायोगात् त्रिलिंगास्तदनंतरम् ॥ विप्राग्निसखिपत्यंशु क्रोष्टुप्रतिभुवः पिता । ना प्रशास्ता च रा गो ग्लौः स्वरान्ताः पुंसि कीत्तिताः । तत्र विप्रशब्दस्य धातुविभक्तिवर्जमर्थवलिंगनिति लिंग संज्ञायामेकवाक्यतापक्षे तस्मात् परा विभक्तय इत्यादिना सि औ जसित्यादीनि सप्त त्रयाणि सप्त विभक्तयः प्रथमादिशब्दवाच्या भवति ॥ अन्त ॥ छ ॥ भवति चात्र संग्रह श्लोकाः ॥ एकादिका भवेत्संख्या संख्येये च दशावधेः । ऊनविंशत्यादिस्त्वेके सदा संख्येयसंख्ययोः ॥ ऊनविंशत्यादेर्भेदे वृत्तिर्द्वित्वादिकेष्वपि । आद्यंतरं त्रिलिगेषु निर्लिङ्गान्तदशावधेः ॥ स्त्रियां वा नवतेस्तत्र शतादिस्तु नपुंसके । स्त्रीनपुंसकयोर्लक्षमर्बुदं पुनपुंसकम् ॥ स्त्रियामेव भवेत्कोटिर्भूम्नि कतिरलिंगकः । यतिस्ततिरपीत्येके स्त्रियां पंक्तिर्दशार्थिका ॥ छ ॥ इत्युपाध्यायसर्वधरविरचितस्याद्यं तप्रक्रियायां त्रिलिंगकाण्डश्चतुर्थः समाप्तः ॥ छ ॥ संवत् १२०७ माघ सुदि २ खौ मंगलम् ॥ क्रमाङ्क ३०५ प्राकृतप्रकाश अपूर्ण पत्र २८ । भा. सं. क. वररुचि । ले. सं. अनु. १४ मी शताब्दी । संद्द. जीर्णप्राय । द श्रेष्ठ । लं. प. १२॥४२ १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy