________________
क्र. २७२ ] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
११९ त्रिभुवनसुभगम्भविष्णुमूर्तिः प्रतिदिशमेदुरकीर्तिकौमुदीकः ।
अयमुदयमिहाऽऽससाद सद्यस्तदनु जिनेश्वरसूरिपूर्णिमेन्दुः ॥२६॥ अनन्तान् सिद्धान्तान् बहुतिथभिदं लक्षणविदं, तमस्यर्कस्तर्कान् जननि ! सदलंकारपटलम् । कथं धत्से स्वच्छे गिरमिति नुवन् हृद्यतनवं, तदास्यं यस्यास्यं तदनु कुतुकाद्वैतमचकात् ॥२७॥
यस्यास्ये शारदाऽऽस्ते ध्रुवमयमिति निर्माति सद्यः प्रबन्धं,
वाक्ये वाचस्पतिश्च स्पृहयति विबुधश्रेणिरुच्चैस्तदस्मै । हस्ते सर्वाऽपि सिद्धिस्तदिह शिरसि सत्येव सा स्फूर्तिमीत,
मूर्ती पर्वेन्दुबिम्बं क्षिपति जनदृशोस्तेन पीयूषमेषा ॥२८॥ तस्यास्य स्वगुरोः परस्वसमयालंकारतर्कादिसद्विद्यास्वर्णमहाखनेरविरतोपास्त्या सुवर्णोत्करान् । प्राप्य श्रीजिनरत्नसूरिरुदयत्सारस्वतप्रातिभोऽसौ लक्ष्मीतिलको गणिश्च किमपि त्रैविद्यचूडामणिः ॥२९॥ श्रीलीलास्पदपद्मदेवतनयक्षेमंधरोद्धान्वयक्षीराम्भोधिसुधांशुना जगधरश्राद्धेशितुः सूनुना । श्रीप्रहादनपत्तने भुवनपालेनामुना साधुना, पद्माकस्य सुतेन साढलमहाश्राद्धेन चाभ्यर्थितः ॥३०॥
स्वपूर्वजश्रीमदशोकचन्द्र-श्रीनेमिचन्द्रादिमसूत्रधार- ।
दृब्धोत्तराध्यायविवृतिसूत्रानुसारतश्चार्वतिसंघटय्य ॥३१॥ यस्मिन् भान्त्यनुपर्वकाननमहो श्रीसर्गसिद्धालयाश्चत्वारः स्फुरदद्भुतायतनभूः सर्गोऽन्तिम चूलिका। विष्वग्वैबुधहृन्मनोरमतमं प्रत्येकबुद्धर्षिराट्चातुर्यस्य चरित्रमेतदतुलं चक्रे सुवर्णाचलम् ॥३२॥
चतुर्भिः कलापकं ॥ श्रीमत्सूरिजिनेश्वरप्रभृतिभिः साहित्यसिंधोः पिवैः, श्रीद्विव्याकरणः(१)सुधीभिरमलीचक्रे प्रयत्नाच्च तत् । प्रेक्षावत्प्रवरैः परैश्च विमलीकार्य विचार्याऽऽदराद् , रुद्राग्नींदु १३११ शरत्तपस्यविमलैकादश्यहेऽपूरि च ॥३३॥ सोदयौँ गणिवीर-कीर्तिकलशौ धुर्यों मनीषावतामात्मोपज्ञवदादरेण तदिदं श्रेयोमुखं स्वात्मनः । आदर्श प्रथमे समक्रमयतां निवर्णनायाभितो, मानं स्पष्टमनुष्टुभाऽयुतमिह त्रिशैकशत्या युतम् ॥३४॥
अङ्कतोऽपि १०१३० ॥ हारस्तेजस्विसारः किमपि सरभसान् रत्नवाणिज्यभाजः, सद्यो यद्वद्विदध्यान्न चणकवणिजोऽप्येवमेतत् प्रतीतम् । तच्चेच्चेतस्सु सौधद्रव इव सहृदां मद्वचस्तत्किमन्यैः, यद्वाऽन्येऽप्येतदुक्त्या सहृद इदमतः साविकं सौधसत्रम् ॥३५॥
मध्येस्वर्गितरङ्गिणीपरिवृढोद्यत्पद्मपद्माकर, क्षोणीपृष्ठबकस्थले नवनवारामाभिरामेऽभितः । यावद्देवगृहश्रियं कलयति स्वर्धामलीलाचलस्तावच्चित्रमिदं चरित्रमुदियाद् विश्वस्य कर्णोत्सवः ॥३६॥
गुरुगिरिविहितास्थः पुण्यपर्वप्रवालः, सुभगविमलमुक्ताशब्दधर्मैकहेतुः । सफलमृदुलताढयः स्फारतेजोविभूतिस्त्रिजगति वरिवत्ति श्रीमदूकेशवंशः ॥१॥ साधुस्तत्रास्त्यसाढः किमपि परममाहेश्वरः श्रीनिवासः.
प्रेक्ष्य व्यासस्य दौष्टयं समजनि सकुलः श्राद्धरत्नं क्षणाद् यः । तत्सूनुर्जामुणागो निरवधिविभवस्तस्य वोहित्थसाधु
स्तत्पुत्रः पद्मदेवोऽग्रजनन इतरः शुद्धधीर्वील्हनामा ॥२॥ दीपः प्रदीपादिव पद्मदेवात् क्षेमंधरोऽभूदनुरूपरूपः ।।
यद्वाहुगेहं गुणलिप्सयेव चक्रे रमा साध्व्यपि नित्यवासं ॥३॥ महेन्द्र-प्रद्युम्नौ यतिपरिवृढौ स्वाग्रजसुतौ, य उत्प्रेक्ष्योत्सूत्राचरितभणिती सात्त्विकमणिः । परौ वा संत्यज्याऽऽश्रयत जिनचंद्र गुरुमथो, महेन्द्रप्रद्युम्नौ न हृदि जिनचंद्रेक्षणकणे ॥४॥
यो व्यातनोदजयमेरुपुरे पुरस्तात् पार्श्वप्रभोः किमपि मण्डपमद्भुतंधि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org