________________
श्रीजेसलमेरुदुर्गस्थ
[प्र. २७३विश्वत्रयभ्रमपरिश्रमविहवलाया विश्राममन्दिरमिव स्वककीर्तिलक्ष्म्याः ॥५॥ कलत्रद्वयमस्याभूत् क्रमशः क्रमशालिनः । पुण्यश्रीर्नु यशोदेवी फलश्रीरिव हंसिनी ॥६॥ जजुस्तस्य महोदधेबहुतरा रत्नोपमाः सूनवः, सम्पूर्णा गुणसम्पदा भुवि यशोदेवीसरित्कुक्षिजाः । कोऽप्येतेषु जगद्धरः सुकृतिनामग्रेसरः कौस्तुभश्रीः श्रीमत्पुरुषोत्तमस्य हृदये वासित्वमैद् यो गुणैः ॥७॥ श्रीमत्पार्श्वस्य नेतुः सदनममदनं स्वर्विमानोपमान, पुर्या श्रीजेसलस्य व्यररचदचिराच्चाभितो भूषणानि । गेहे साधर्मिकोर्वीरुहवनमनु चाच्छिन्नवात्सल्यकुल्यां, पूरेणावीवहद् यो मरुषु किमपरं प्राप कल्पद्रुमत्वम् ॥८॥ शालीनतालीश्रीशीलं यदात्मजमपालयत् । तस्य साढलही नाम्ना सा बभूव सधर्मिणी ॥९॥ तस्याभवन्मतनयाः सुनयास्त्रयोऽमी, तेषामयं धुरि यशोधवलो यशोब्धिः। माध्यंदिनो भुवनपाल इलापसंसदुज्ज्वालकीर्तिरनुजः सहदेवनामा ॥१०॥ आसुला हीरलेत्येषां भग्न्यौ चन्दनवर्द्धिके। भारतीश्रीश्रियौ ये च कुलद्वयमभूषताम् ॥११॥ इह च भुवनपालः प्रीतदिकचक्रवालः, स्वगुरुजिनपतीशस्तूपमूनि ध्वजस्य । विघटितमधिरोहं कारयित्वा बलाद् यो, जगति जयपताकां प्रापयामास संघम् ॥१२॥ नित्यं श्रीगुरुपर्युपास्तिरसिकः संप्रीतसाधर्मिकः, षोढावश्यककर्मशौचरुचितः सद्ब्रह्मचर्याहतः । अश्रान्तं स्मृतवान् नमस्कृतिमहामंत्र प्रतिष्ठापनाव्याजाद्वीरजिनं सुवर्णपुरुष संशोधयामास यः ॥१३॥
तस्य प्रिया त्रिभुवनपालधीदा रघुप्रभोरिव जनकस्य धीदा। पुत्रद्वयं समजनि खीम्वसिंहाऽभयाहवयं कुशलवलीलमस्य ॥१४॥ आश्चर्यवर्यमणिरोहणरोहणाद्रि प्रत्येकबुद्धचरित ललितं विधाप्य । साधुः सुधीर्भुवनपाल उदारचेता एष स्वपुण्यमिव लेखयति स्म मूर्तम् ॥१५॥ सूरिजिनवल्लभः सुगुरुजिनदत्त इत्यनु च जिनचन्द्र उदगाततो जिनपतिः ।
तत्पदोदयिजिनेश्वरसुगुरुसूरये पुस्तिकाद्वयमदोऽसौं ददे ध्रुवविदे ॥१६॥ एकस्तम्भे सुरशिखरिणा भूर्भुवःस्वस्त्रयेऽस्मिन् प्रासादेऽर्केन्दुसपरिवृतोऽहत्प्रतापः सुराजा। यावद् राज्य सृजति भृशमेकातपत्रं हि तावत् सूरिव्यासाः प्रतिपदमिद तत्पुरो वाचयतु ॥१७॥ छ । ॥ मङ्गलमस्तु ॥छ।
क्रमाङ्क २७३ प्रत्येकबुद्धचरित्र पद्य पत्र २४८ । भा. सं.। क. लक्ष्मीतिलक । ले. सं. अनु. १५ मी शताब्दी पूर्वाध। संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. १८४२।
पत्र ६३-६५, ६७, ६९, ७५, ७७-७९, ८३, ८५, ८७, ९३, ९५, ९७, ९८, १००, १०१, १३०, १३१, १४५, १४९, १५३-१५८, १८४-१८९, १९१, १९२, १९४, २०३, २०४, २११, २१३२१५, २१७, २१८, २३३-२३७, २४०, २४२, २४४, २४७ नथी।
क्रमाङ्क २७४ नरवर्मचरित्र-सम्यक्त्वालंकार अपूर्ण पत्र ३२४ । भा. सं.। क. वाचनाचार्य विवेकसमुद्रगणि । ले. सं. १५ मी शताब्दी। संह. श्रेष्ठ। द. श्रेष्ठ। लं. प. १८॥४२ । पत्र ५८, ६०, ६४, ६५, ७२, ८२, ८६, ८७, १३२, १४९, १५१, १६६, १९१, १९४,
२१३, २१४, २१८, २२०, २२१, २२२, २३४, २३७, २४४, २६४, २६९, २७१, २७४, २७६, २७८, २७९, २८१, २८६, २८८, २८९, २९२, २९३, ३०२-३०४, ३२३ नथी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org