________________
११८
श्रीजेसलमेरुदुर्गस्थ
[क्र. २७२को नामामुत्र मंत्रे वसति सुर इति ध्यानलीनोऽहिराजा,
सद्यो दिष्ट्या प्रभोऽस्मि स्मृत इति वदताऽभ्येत्य संस्तूयमानः । यो न्यांजीद् दुःषमायां निशि बत महिमाचार्यमन्त्रैकभानोः,
स्वामी श्रीवर्द्धमानः स पदि सपदवीं सूरिराजामविन्दत् ॥ ११ ॥ चातुर्वैद्य विदग्रणीरपमलब्राह्मण्यभृग्रामणीर्यः श्रीगौतमवद्विलोक्य विलसद्धाम्नां निधि तं प्रभुम् । सद्यः सोदरबुद्धिसागरपरीवारान्वितः प्रावजत् , स श्रीसूरिजिनेश्वरः खरतरत्वं साध्वथासेदिवान् ॥ १२ ॥ मिथ्याज्ञानदुरन्तशक्तितरसा श्रीपत्तने पत्तने, गाढाधिष्ठितकारिणश्चतुरशीत्याचार्यदु-चेटकान् । यः श्रीदुर्लभराट्समे श्रुतमहामन्त्रनिगृह्य क्षणादक्षीणां शिवसंपदं सुविहितश्रेणीविहारैर्व्यधात् ॥ १३ ॥ तर्कादीन् बहु यः स्वयं यदनुजः शब्दानुशास्त्यादिकानेता श्रीसुरसुन्दरों च जिनभद्राख्यो यदाद्यान्तिषत् । यच्छिष्यान्तिषदुत्तराध्ययनसद्याख्यामशोकेन्दुरातेने वागधिदेवताकुलमिव क्षोणीतले यत् कुलम् ॥१४॥ ज्योतिश्चक्र इवास्य शिष्यपटले शीतांशुसूर्यप्रभौ जज्ञाते स्वपरागमामरपथाध्वन्यौ विनेयावुभौ । तत्राऽऽद्यो जिनचन्द्रसूरिरसृजत् संवेगरङ्गोतरां, शालां सर्वसमानमत्र भुवने संवेगसत्रं तु यः ॥१५॥ अन्यश्चाऽभयदेवसूरिरुदयल्लोकोत्तरप्रातिभः, कतु स्वात्मनि संयमश्रियमविश्रान्तां प्रसन्नामिव । अत्यन्तं सहचारिणीं प्रियसखीं तस्या नवाङ्गीमिमां, व्याख्यारत्नविभूषणैः किमपि यः प्रासीसदत् सर्वतः ॥१६॥ साक्षाच्छासनदेवतावचनतः प्रस्थाय दूरान्मुदा, श्रीसंघेन चतुर्विधेन सहितः श्रीधर्मचक्रीव यः। सेढीस्वस्तटिनीतटे प्रकटयामासेह तात्कालिकश्रीद्वात्रिंशिकया द्रुतं नवनिधिप्राय च पार्श्वप्रभुम् ॥१७॥ मुक्त्वा काककुलायवज्जनिभुवं तं चैत्यवास्यालयं, यः पुंस्कोकिलकान्तिरात्मविदुरो वतिष्णु तत्र प्रभौ । माकन्दे परपुष्टसाधुकुलमाशिधाय सत्सिद्धये, स श्रीमान् जिनवल्लभस्तत उदै विश्वत्रयीवल्लभः ॥१८॥ यः श्रीमान् मन्दरागो विबुधसमुदयैः पर्युपास्यः समन्तात् , सिद्धान्तक्षीवार्द्धरतिदुरधिगमागाधमध्य विगाह्य । साक् कर्मग्रन्थ-पिण्डप्रकरणमुखसद्ग्रन्थपीयूषकुण्डैः, प्रत्नरत्नैश्च धिन्वन् सकलसुमनसोऽभूत् क्षमाभृद्वतंसः॥१९॥ तत्पट्टे जिनदत्तसूरिरुदभूत् श्रीकृष्णमूत्ति धिद्, विध्यादित्रिपदों य एष नरकप्रष्टान् वृषद्वषिणः । बिभ्राणान् भुवि भावभासुरमपाचके परानित्यतः, स्थानेऽसेव्यत यो निदेशमनिशं दिष्टयेच्छुभिर्देवतैः ॥२०॥
तदनु च जिनचन्द्रसूरिसिंहः समजनि शैशवशालिनाऽपि येन ।
प्रबलमदभरान्धवादिदंतावलदलना खलु लीलयैव चक्र ॥२१॥ सकलज्योतिरुदयलक्ष्मीकृतिकामिकतीर्थमद्भुतं शुभतमसततभाविपूर्वस्थितिसुभगम्भावुकोन्नतम् । तत्पदमेतदुदयधरणीधरमलमकृतातिभास्वरस्त्रिभुवनरञ्जनकधामद्धिजिनपतिसूरिभास्करः ॥२२॥
यस्याग्रे न परो गुरुन च कविनों वा बुधः प्रायुतत् ,
प्रागल्भी न कलावतो न तमसः क्षुद्रग्रहाणां न च । वादीन्द्राश्च भयंकरा अपि ययुः साग घूकवन्मूकतां,
धाम्नां धाम य एक एव भुवने किन्तूद्दिदीपेऽभितः ॥२३॥ सूरिः श्रीसवदेवः सहविजयपदी देवसूरिः कृतीन्द्र
स्तम्रिोद्यानपालः स जगति जिनपालोऽभिषेकावतसः । श्रीमान् सूरप्रभः संघहितयुत उपाध्याय इत्येवमाया,
विद्यानद्यर्णवाः क्ष्मातलमतिलकयन् यस्य शिष्यांशुदण्डाः ॥२४॥ श्रसंघपट्टकपरिष्कृतपञ्चलिपयाः, सिद्धान्तदिव्यसरसीसरसी रुहिण्याः । अश्रान्तसन्तमससंहतिहृद्वीभिर्विस्तार्य यः परिमलं प्रकटीचकार ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org