SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ क. २७.1 जैन ताडपघीय ग्रंथभंडार सूचीपत्र १९३ तच्छिष्यो जिनचन्द्रसूरिरमृतज्योतिनवीनोऽभवत्, पद्मोद्भासनभृत्कलंकविकलो दोषोदयध्वंसनः । सुस्थयों जडिमापहारचतुरः सच्चक्रमोदावहो, दूरीभूततमोवृतिन कुटिलो न व्योमसंस्थानकृत् ॥३॥ __ अन्योऽपि शिष्यतिलकोऽभयदेवसूरिः, श्रीमज्जिनेश्वरगुरोः श्रुतकेतुरासीत् । पञ्चाशका-ऽष्टक-नवागमनोज्ञटीकाकारः सुचारुधिषणः सुमनःप्रपूज्यः ॥४॥ आकाऽभयदेवसूरिसुगुरोः सिद्धान्ततत्त्वामृतं, येनाज्ञायि न सङ्गतो जिनगृहे वासो यतीनामिति । तं त्यक्त्वा गृहमेधिगेहवसतिनिर्दूषणा शिश्रिये, सूरिः श्रीजिनवल्लभोऽभवदसौ विख्यातकीत्तिस्ततः ॥५॥ भास्वस्तितः समुदगाजिनदत्तसूरिभव्यारविन्दचयबोधविधानदक्षः । गावः स्फुरन्ति विधिमार्गविकासनकतानास्तमोविदलनप्रवणा यदीयाः ॥६॥ बाल्ये श्रीजिनदत्तसूरिविभुभिये दीक्षिताः शिक्षिता, दत्त्वाऽऽचार्यपदं स्वयं निजपदे तैरेव संस्थापिताः । ते श्रीमज्जिनचन्द्रसूरिगुरवोऽपूर्वेन्दुबिम्बोपमा, न प्रस्तास्तमसा कलङ्कविकलाः क्षोणौ बभूवुस्ततः ॥७॥ यैर्वादीन्द्रकरीन्द्रदर्पदलने सिहेरिव स्फूर्जितं, मोहध्वान्तविनाशने भुवि सदा सूयरिवोज्जम्भितम् । भव्यप्राणिसमूहकैरववने चन्द्रैरिवेहोद्गत, ते श्रीमज्जिनपत्यभिख्यगुरवोऽभूवन् यतीशोत्तमाः ॥८॥ तेषु स्वर्गाधिरूढेष्वहह बहुगुणस्तद्विनेयावतंसः, साधुऊरप्रभाष्यः सकलगणधुराधुर्यवोर्जितश्रीः। आचार्यैः सर्वदेवैर्विहितगुरुपदोऽधिष्ठितस्तन्महिम्ना, नामानं लम्भितः श्रीवसतिनिवसतिस्थापनाचुंचुसूरेः ॥९॥ श्रीचन्द्रगच्छमभिनन्दति शास्ति पाति तीर्थ प्रभावयति सम्प्रति जैनचन्द्र । यः श्रीजिनेश्वर इवाप्रतिमैर्वचोभिर्वतैरिव त्रिभुवनं पृणति प्रतीतः ॥१०॥ तदाज्ञया सद्गुणसवदेवाचायः समं जेसलमेरुदुर्गे । स्थितो गिरैषां स्वपरोपकारहेतोः समाधि मनसोऽभिलष्यन् ॥११॥ शरवसुरविसंख्ये १२८५ वैक्रमे वत्सरेऽस्मिन् , वहति तपसि मासे शुक्लपक्षे दशम्यां । जिनपतिगुरुशिष्यः पूर्णभद्राभिधानो, गणिरकृत चरित्र धन्यगोभद्रसून्वोः ॥१२॥ चरितमिदमखिलनिर्मलविद्याकूपारपारदृश्वानः । वाचकमुख्याः सूरप्रभाभिधाः शोधयाञ्चकुः ॥१३॥ धन्यसाधुमुनिशालिभद्रयोः प्रीतिकारि चरितं विधाय यत् ।। पुण्यमत्र समुपार्जितं मया स्तात्ततो जगदिदं सुखास्पदम् ॥१४॥ गगनसरसि यावन्निर्मले शारदेन्दुः, कलयति कलहंसस्फारलीलातिरेकम् । जगति जयति तावत् पठयमानं सुधीभिः, सुचरितमिदमुच्चेर्घन्यगोभद्रसून्वोः ॥१५॥छ।। सर्वसंख्यया प्रशस्तिरियं श्लोक २९ चरितं तु सर्वसंख्यया श्लोक १४९० ॥ (२) कृतपुण्यचरित्र पत्र १५७-३२८ । भा. सं.। क. पूर्णभद्र । र. सं. १३०५ । आदि ॥ ॐ नमः सर्वज्ञाय ॥ अहं ॥ प्रथमजिनवरेन्द्रः प्रहृवसर्वामरेन्द्रः प्रदिशतु स सुखानि श्रायसश्रीसुखानिः । व्रतमहसि महिष्ठे सद्यांकूरपूराविव चिकुरवतंसौ व्यावभस्तां यदंसौ ॥१॥ श्रीशान्तिः शान्तये सोऽस्तु यत्पादौ सरलायतौ। धत्तः सिद्धिमहासौधतोरणस्तम्भविभ्रमम् ॥२॥ सद्धर्मचक्रनेमिर्वो नेमिर्बोधिश्रियं क्रियात् । येनालावि कलाकेलिलीलाकोमलकन्दली ॥३॥ श्रीमतेऽस्तु नमः पार्श्वचन्द्रायामृतहेतवे। सदैव कौशिकव्यूहलोचनानन्ददायिने ॥४॥ महावीरः श्रियं दिश्यात् स्वपुराद् भूतवातिनी। येनान्तरारिपटली धर्मद्वारा प्रवासिता ॥५॥ धन्यश्च शालिभद्रश्च कृतपुण्यादयो नराः। मुनिदानप्रभावेन बभूवुः सुखभाजनम् ॥६॥ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy