________________
११४ श्रीजेसलमेरुदुर्गस्थ
[क्र. २७०इत्युक्तं यत्तत्र तावद्धन्यश्रीशालिभद्रयोः। कथोक्ता कृतपुण्यस्य चरितं कीर्तयिष्यते ॥७॥ विशेषः पुनरत्राय पुरा दानान्तरायतः। प्राप्तानामपि भोगानां विघ्नोऽभूदन्तराऽन्तरा ॥८॥
रमणभवसुमुनिपायसदानावसरे त्रिभागकरणेन । दानान्तरायदोषादस्याभूद्धोगविघ्नोऽपि ॥१८॥
तदन्तरायोज्झितमेव दानं पात्राय दत्ताऽऽदरतो विशुद्धम् ।
येनामरी सम्पदमाप्य शस्यां सम्पूर्णभद्रं शिवमाप्नुत द्राक् ॥१८१॥ पूर्णज्ञानरमो भयापहतिकृद् रम्याङ्गचङ्गः स्फुटं, सत्पाणिद्वितयः स्वनेकपगमोऽदम्भोऽस्तशीर्षव्यथः । छिन्नारव्रततिः सुराञ्चितपदो वर्णक्षतेन्दीवरः, स्यान्माने च हरिविमुक्तिविधये संघाय पार्थो जिनः ॥१८२॥
पूर्णभद्रगणिनेदं व्यरचि इति नामाकं छत्रम् ॥छ।। श्रीहरिभद्रजिनेश्वरसूरिकृतौ प्रचुरकथकथाकोशौ । आवश्यकवृत्तिकथां दृष्ट्वैतच्चरितमतिरम्यम् ॥१८३॥
एतदनुसारतोऽपि हि कृतपुण्यमहामुनेर्मया चरितम् । व्यरचि यदत्रानुचितं तन्मिथ्यादुष्कृतं मेऽस्तु ॥१८४॥ युग्मम् ॥ धन्यसाधुमुनिशालिभद्रयोरादितश्चरितमादधे मया । साम्प्रतं तु कृतपुण्यसन्मुनेः सच्चरित्रमिदमादरात् कृतम् ॥१८५॥ इति चरमजिनश्रीवीरशिष्यावतंसत्रितयचरितमेतच्चारुवर्णावलीकम् ।
नगरमिव विशालं पूरितं भूरिकालं जयति जगति विज्ञैः पठ्यमानं सदैव ॥१८६॥ इति युगप्रवरागमश्रीमज्जिनपतिसूरिशिष्यवाचनाचार्यपूर्णभद्रगणिविरचिते कृतपुण्यमहर्षिचरिते देवदत्ताकृतसर्वस्वापहारपृच्छोत्तरकृतपुण्यजातिस्मरणदीक्षाभिलाषामारिघोषणादिसंघवात्सल्यपर्यन्तदीक्षामहोत्सवद्विविधशिक्षाग्रहणविहारकरणानशनप्रतिपत्तिकरणस्वर्गगमनभाविप्रत्यागमनसिद्धिसौधाधिरोहव्यावर्णनो नाम सप्तमः परिच्छेदः ॥छ॥ समाप्त चेदं श्रीकृतपुण्यमहर्षिचरितमिति ॥छ॥ नमः श्रीजिनपतिपादपद्मभ्यः ॥ मङ्गलमस्तु ॥छ।।
आसीच्चान्द्रकुले जिनेश्वरगुरुर्निधूतवादिद्विपाहकारो हरिणेशितेव भुवने निर्भीकचूडामणिः । तच्छिष्यो जिनचन्द्रसूरिरभवत् संवेगशास्त्रामृतत्रिस्रोतोहिमवन्महीधरनदः प्रोद्दामपद्मालयः ॥१॥ स श्रीसूरिजिनेश्वरस्य सुगुरोरन्योऽपि शिष्याग्रणीरास्ते स्माऽभयदेवसूरि निपः प्रज्ञालचूडामणिः । अङ्गानां विवृति वरां विरचयन् यो जैनचन्द्रागमप्रासादोपरि शातकुम्भकलशं नूनं समारोपयत् ॥२॥ श्यामां मूर्तिमवेक्ष्य यस्य सुतपःशंपाप्रभाभासुरां निस्वानं च निशम्य भव्यशिखिनः सान्द्रं दधुः संमदम् । प्रावृटकालमहापयोमृत इवाशेषाङ्गिनां वल्लभो जज्ञेऽसौ जिनवल्लभो मुनिपतिः क्षिप्तारिभीतिस्ततः ॥३॥ पट्टे श्रीजिनवल्लभस्य सुगुरोः श्रीदेवभद्रप्रभुस्तत्कैः सर्वगुणैरलंकृततनून् संस्थापयामास यान् । यद्वा सिंहपदे मृगाधिपतयो योग्याः शगाला न वै, ते श्रीमज्जिनदत्तसूरिगुरवोऽभूवन् मुनिस्वामिनः ॥४॥ जल्पन्तोऽतिविकल्पजालजटिलं मध्येमहीभृत्सभं, बालेनापि सता जिता मतिमता येनेह वादीश्वराः । भज्यन्ते लघुना न कि बलवता सिंहेन तुङ्गा गजाः, स श्रीमान् जिनचन्द्रसूरिरभवद् रूपास्तदेवाधिपः ॥५॥ ये भव्यप्राणिराजीनवकुमुदवनीबोधने चन्द्रपादा मिथ्यामार्गान्धकारप्रकरविमथने भानवो भानवीयाः । स्फूर्जेद्वादीभकुम्भस्थलदलनविधाविद्धसारंगराजाः श्रीमन्तस्ते बभूवुः प्रभुजिनपतयोऽनन्तरं सूरिवर्याः ॥६॥ तेषां शिष्यवरा मुदं विदधते सम्प्रत्यपि प्राणिनां, श्रीमत्सूरिजिनेश्वरा ध्वनिजितप्रावृटपयोदस्वराः । सम्यग्ज्ञानमहानिधानकलशाः सद्देशनालङ्कृताः, सच्चारित्रपवित्रगात्रवचनस्वान्तारविन्दाः सदा ॥७॥ तेषामाज्ञाकरः श्रीजिनपतिसुगुरोः पूर्णभद्रो विनेयो, भद्रासूनोः सुसाधोश्चरितमिह गणिर्वाचनासूरिराधात् । दुर्गे श्रीजेसलाख्यावनिपतिनगरे बाणशून्यानलग्लौसंख्येऽन्दे मार्गशीर्षासितदशमदिने स्वान्यनिःश्रेयसाय ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org