________________
श्रीजेसलमेरुदुर्गस्थ
[ क्र. २३७कान्ता साधारणस्याभूद् रोहिणीव हिमातेः । इन्द्राणीव सुरेशस्य लक्ष्मीरिव मुरद्विषः ॥१६॥ शीलेन सुलसा सीता रेवती च सुभद्रिका। शीलमत्यभिधानेन चैता उपमिता यया ॥१७॥ तस्यैवान्यतरा भार्या जज्ञरे (जज्ञेऽथ ?) शीलशालिनी। प्रतीता सहवा नाम्नी सुभक्ता निजभर्तरि ॥१८॥ शीलमत्याः सुतो जातः प्रधनः श्रीकुमारकः । द्वितीयो नागदेवाहवः प्राप्ता साऽथ दिवौकसम् ॥१॥
चान्द्रे कुले श्रीमति सोमकल्पे समुज्ज्वले शुद्धयशोमयूखे । सवृत्तशालिन्यकलङ्कभाजि सदोदयानन्दितसज्जने च ॥२०॥ गणधर इव साक्षागौतमादि व्यहार्षोंदतिशयगुणगेहं यो धरायामधृष्यः । स्वपरसमयसिन्धोः पारदृश्वा प्रसिद्धोऽजनि जितमदनः श्री...............॥२१॥ सुविहितशिरोरत्नं श्रीमज्जिनेश्वरसूरिरित्यगणितभयो दुःसंघीयाद् गणाद् गुणसागरः । नृपतिविदितः सत्साधूनां प्रवृत्तिविधायकोऽणहिलनगरे पट्टे तस्याभवद् बुधसम्मतः ॥२२॥ जाता जिनेश्वरमुनीश्वरमुख्य........... ..........सा। आराधनाभिधकृति सुरसुन्दरी च चक्रे क्रमेण हि ययेह नवाङ्गवृत्तीः ॥२३॥ आद्यः श्रीजिनचन्द्रसूरिरखिलाचारप्रचारे चिरं, स्कन्धं बिभ्रददभ्रनिर्मलयशा धौरेय............। ख्यातः श्रीजिनभद्रसूरिरपरः प्राज्यप्रभावान्वितस्तस्माद्विस्मयकारिचित्रचरितश्चारित्रचूडामणिः ॥२४॥ प्राप्तो नव्ययुगप्रधानपदवीं तैस्तैगुणर्भारतेऽस्मिन् क्षेत्रेऽभयदेवसूरिरभयो निर्मीतजैनागमः । मान्योऽन्यस्तु ततः समस्तजगतः प्रोत्सर्पिताइन्मतः संघस्याभिमतः समुन्नतिमतः श्रीदेवताध्यासितः॥२५॥ पट्टे श्रीहरिभद्रसूरिरभवत् तस्याथ पूज्यक्रमाम्भोजस्याभयदेवसूरिसुगुरोर्नव्याङ्गवृत्तेवराम् । यो व्याख्यां विदधेऽणहिल्लनगरे विद्वन्मुनिष्वग्रतो, बिभ्राणेषु घनध्वनिः कपरिकाशीतिं चतुःसंयुताम् ॥२६॥ तच्छिष्यः श्रीयशश्चन्द्रसूरिभूरिसमश्रियाम् । जातः पदं पदे तस्य पद्मदेवमुनीश्वरः ॥२७॥ श्रीमान् समुज्झितसमग्रधनोऽप्युपात्तधा न शस्त्रकलितः कलिकाममुक्तः । कामाकृतिः खलु कलावपि पूर्णकामः, पार्श्वप्रभोरभयसूरिगुरोः प्रसादात् ॥२८॥ बभूव भूमण्डलमण्डनककीर्तिः स्वमूर्त्या जनयन् जनानाम् । अमन्दमानन्दमिवाऽऽत्मबन्धुरनन्यलावण्यगुणेन सिन्धुः ॥२९॥ चरणकमलभृङ्गस्तस्य निर्मुक्तसङ्गः समजनि जिनभद्राचार्यवर्योऽजितश्रीः ।
इति गुरुजनवंशं शीलुका सप्रशंसं स्म कथयनिमित्तं लेखने पुस्तकस्य ॥३०॥ ज्ञात्वा ज्ञान प्रबोधोदधिशितकिरणः दुर्गतिद्वाःपिधानं, रागद्वेषद्विपेन्द्रांकुशसदृशमुरोरप्रमादस्य हेतुम् । सेतं दःखाम्बराशेः प्रथितसुरसुखश्रीविधानं निधानं कल्याणानां प्रधानं शिवपुरगमने पूर्णकुम्भोपमानम् ॥३१॥ त्रिदिवप्रयाणसमये शीलमती प्राह सुसुरभर्तारौ। मम श्रेयसेऽथ पुस्तकलेखनविषये प्रयतनीयम् ॥३२॥ तथा श्रीशान्तिनाथस्य बिम्बमुत्तमकारितम् । यतो जन्मान्तरे बोधि प्राप्नुयाम् विमले कुले ॥३३॥ नागदेवस्य श्रेयोथै शीलमत्यास्तथैव च। पार्श्वकुमारकः श्रेष्ठी साधारणसमन्वितः ॥३४॥ चतुःपन्नमहापुरुषचरिताख्यां देवद्वराम् । लेखयामास सद्वर्ण सुपत्रं पुस्तकं वरम् ॥३५॥ जम्बूद्वीपसुमेरुसागरमहानद्यो महीमण्डले यावद् व्योमतले मृगाङ्कमिहिरौ नक्षत्रमालास्तथा । राजन्ते जिनशासनोन्नतिकरं मोहव्यपोहाय वः स्तात् तावद् वचनामृतं श्रवणयोः पुष्णन्नघं पुस्तकः ॥३६॥ शीलमत्याः पितृपक्षी कथ्यते। यथाकटुकासनवास्तव्यो अश्वदेवाभिधानकः । वासः समप्रनीतीनां अभूतां होबटे कुले ॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org