________________
क. २३९ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र सद्धर्मकर्मसंयुक्तः सर्वदेवस्ततोऽपरः । सर्वदेवो दयाधाम दाक्षदाक्षिण्यवानतः ॥३८॥ तृतीयो बाहडो नाम प्रष्ठः श्रेष्ठगुणैः सताम् । दृढधर्मानुरागेण शंके यं श्रेणिकात्मजम् ॥३९।। अश्वदेवस्य भार्याऽभूत् समग्रगुणशालिनी। सूहवेति प्रतिख्याता चन्द्रलेखेव निर्मला ॥४०॥ चत्वारस्तनयाश्चतुषु विदिता दिग्मण्डलेष्वेतयोर्जातास्तत्र पवित्रचित्रचरितश्चारित्रिषु प्रीतिमान् । ज्येष्ठः श्रेष्ठतमं नयस्य भवनं लक्ष्मीधरो विश्रुतः, ख्याति बिभ्रददभ्रशुभ्रयशसा -वेतीकृतः स्वान्वयः ॥४१॥ मुलदेव-धवलाख्यौ यशश्चन्द्रस्ततस्त्रयः। त्रिकालं पूजयामासुर्ये त्रिकालविदो जिनान् ॥४२॥ राजीमतीति विख्याता तनया गुणराजिनी। सैव शीलमती जाता पाणिग्रहणादनन्तरम् ॥४३।। यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयताम् ॥४४॥ भग्नपृष्ठिकटिग्रीवा तथा दृष्टिरधोमुखी । कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥४५॥ शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ।।
॥छ॥छ॥ मगलं महाश्रीः ॥छ॥छ।॥छ।।
क्रमाङ्क २३८ त्रिषष्टिशलाकापुरुषचरित्र तृतीयपर्वपर्यन्त-शीतलनाथस्वामिचरित्र पर्यत पत्र २४८ । भा. सं.। क. हेमचंद्राचार्य । ले. सं. अनु. १४ मी शताब्दी। संह. श्रेष्ठ। द. श्रेष्ठ । लं. प. ३१।४२॥.। प्रथमपर्व पत्र १-१२३ । द्वितीयपर्व १२४-२०६ । तृतीयपर्व पत्र २०७-२४८ ।
___ क्रमाङ्क २३९ (१) त्रिषष्टिशलाकापुरुषचरित्र प्रथमपर्व पत्र १-१३१ ।।
, दशमपर्व पत्र १३२-३०९ । भा. सं.। क. आचार्य हेमचंद्र। ग्रं. १३८६६ । ले. सं. १३१९ । संह. श्रेष्ठ । द. श्रेष्ठ । लं प. ३१४२।।
आ प्रतिमा घणां पानांना टुकडा थयेला छे अने घणां पानां खूटे छ। अन्त
॥ग्रं. ५२०० ॥छ॥ मंगलं महाश्रीः ॥ शुभं भवतु लेखक-पाठका-ऽवधारणादिसमस्तजनश्रावकाणां ॥छ॥ सं. १३१९ वर्षे माघवदि १० शुक्र ठः विक्रमसिंहेन पुस्तकमिदं लिखितमिति ॥छ।छ।।
सवृत्तः सरलस्तुंगः शोभितश्च सुपर्वभिः । श्रीमान् प्राग्वाटवंशोऽस्ति भूभृल्लब्धमहोदयः ॥१॥ सद्गुस्तत्र गतत्रासो मुक्तामणिरिवामलः। मंत्री कुमरसिंहस्त्रिभुवनदेवी तत्प्रिया ॥२॥
आसराजामृतपालौ तत्पुत्रौ नयशालिनौ । पुत्री च सुभटादेवी सुभटा धर्मकर्मसु ॥३॥ प्रियाऽनुपमदेवीति ज्येष्ठस्यानुपमा गुणैः । सुता च पद्मलदेवी धर्मपद्ममरालिका ॥४॥ कनिष्ठस्यामृतदेवी भार्याऽऽल्हाकश्च तत्सुतः। जज्ञे केल्हणदेवीति द्वितीया तस्य वल्लभा ॥५॥ मंत्री कुमरसिंहोऽथ सकुटुम्बोऽपि शुद्धधीः । क्रियायाः प्रथमं ज्ञानं श्रुत्वेति सुगुरोमुखात् ॥ ६॥ त्रिषष्टिशलाकापुंसां प्रथमान्त्याहत्पुस्तकम् । अलेखयदिदं धन्यो मुक्तिश्रीशासनोपमम् ॥ ७ ॥ द्वियुग्माक्षीदुसंख्याने १३२२ वर्षे श्रीसंघमध्यतः । व्याख्यानयच्च तं भक्त्या श्रीमद्देवेन्द्रसूरिभिः ॥८॥ यावद् व्योमसरःकोडे राजहंसौ विराजतः । तावत् कृतिकृतानन्दो नन्दतादेष पुस्तकः ॥९॥
७० ॥ संवत् १३४३ आषाढ सुदि १ साधुवरदेवसुतेन सकलदिग्वलयविख्यातावदातकीर्तिकौमुदीविजितामचंद्रसाधुश्रीचंद्रभ्रात्रा अमलगुणरत्नरोहणेन साधुमहणश्रावकेण स्वेन श्रीयुगादिदेवचरित्रादिपुस्तकं गृहीत्वा श्रीजिनचन्द्रसूरिसुगुरुभ्यः प्रदत्तं व्याख्या[ पितं च ॥]
(२)
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org